पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथापि किं जीवितमद्य मे वृथा त्वया विना चन्द्रनिभाननप्रभ ।
अनुव्रजिष्यामि वनं त्वयैव गौः सुदुर्बला वत्समिवानुकाङ्क्षया ॥ ५४
भृशमसुखममर्षिता तदा बहु विललाप समीक्ष्य राघवम् ।
व्यसनमुपनिशाम्य सा महत् सुतमिव बद्धमवेक्ष्य किंनरी ॥ ५५


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहसिकायां संहितायां
अयोध्याकाण्डे कौसल्याक्रन्दो नाम विंशः सर्ग:


एकविंशः सर्गः

कौसल्यालक्ष्मणप्रतिबोधनम्

तथा तु विलपन्तीं तां कौसल्यां राममातरम । उवाच लक्ष्मणो दीनस्तत्कालमदृशं वचः ॥
न रोचते ममाप्येतदार्ये यद्राघवो वनम् । त्यक्त्या राज्यश्रियं गच्छेत स्त्रिया वाक्यवशंगतः ॥
विपरीतश्च वृद्धश्च विषयैश्च प्रधर्षितः । नृपः किमिव न जयाच्चोद्यमानः समन्मथः ॥
नास्यापराधं पश्यामि नापि दोषं तथाविधम् । येन निर्वास्यते राष्ट्राद्वनवासाय राघवः ॥ ४
न तं पश्याम्यहं लोके परोक्षमपि यो नरः । स्वमित्रोऽपि निरस्तोऽपि योऽस्य दोषमुदाहरेत् ॥ ५
देवकल्पमृजुं दान्तं रिपूणामपि वत्सलम । अवेक्षमाणः को धर्मं त्यजेत् पुत्रमकारणात् ॥ ६
तदिदं वचनं राज्ञः पुनर्बाल्यमुपेयुषः । पुत्रः को हृदये कुर्याद्राजवृत्तमनुस्मरन् ॥ ७
यावदेव न जानाति कश्चिदर्थमिमं नरः । तावदेव मया सार्धमान्मस्थं कुरु शासनम् ॥