पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गमिष्ये दण्डकारण्यं किमनेनासनेन मे । विष्टरासनयोग्यो हि कालोऽयं मामुपस्थितः ॥ २८
चतुर्दश हि वर्षाणि वत्स्यामि विजने वने । मधुमूलफलैर्जीवन् हित्वा मुनिवदामिपम ॥ २९
भरताय महाराजो यौवराज्यं प्रयच्छति । मां पुनर्दण्डकारण्ये विवासयति तापसम ॥ ३०
स षट् चाष्टौ च वर्षाणि वत्स्यामि विजने वने । आसेवमानो वन्यानि फलमूलैश्च वर्तयन ॥ ३१
सा निकृत्तेव सालस्य यष्टिः परशुना वने । पपात सहसा देवी देवतेव दिवश्च्युता ॥ ३२
तामदुःखोचितां दृष्ट्वा पतितां कदलीमिव । रामस्तूत्थापयामास मातरं गतचेतसम् ॥ ३३
उपावृत्योत्थितां दीनां बडबामिव वाहिताम । पांसुकुण्ठितसर्वाङ्गीं विममर्श च पाणिना ॥ ३४
मा राघवमुपासीनमदुःखार्ता सुखोचिता । उवाच पुरुषव्याघ्रमुपशृण्वति लक्ष्मणे ॥ ३५
यदि पुत्र न जायेथा मम शोकाय राघव ! न स्म दुःखमतो भूयः पश्येयमहमप्रजाः ॥ ३६
एक एव हि वन्ध्यायाः शोको भवति मानसः । अप्रजास्मीति संतापो न ह्यन्यः पुत्र विद्यते ॥ ३७
न दृष्टपूर्व कल्याणं सुखं वा पतिपौरुषे । अपि पुत्रे तु पश्येयमिति रामास्थितं मया ॥ ३८
मा बहून्यमनोज्ञानि वाक्यानि हृदयच्छिदाम । अहं श्रोष्ये सपत्नीनामवराणां वरा सती ॥ ३९
अतो दुःखतरं कि नु प्रमदानां भविष्यति । मम शोको विलापश्च यादृशोऽयमनन्तकः ॥ ४०
त्वयि संनिहितेऽप्येवमहमासं निराकृता । किं पुनः प्रोषिते तात ध्रुवं मरणमेव मे ॥ ४१
अत्यन्तं निगृहीतास्मि भर्तुर्नित्यमतन्विता । परिवारेण कैकेय्याः समा वाप्यथवावरा ॥ ४२
यो हि मां संवते कश्चिदथवाप्यनुवर्तते । कैकय्याः पुत्रमन्वीक्ष्य स जनो नाभिभाषते ॥ ४३
नित्यक्रोधतया तस्याः कथं नु स्वरवादि तत् । कैकेय्या वदनं द्रष्टुं पुत्र शक्ष्यामि दुर्गता ॥ ४४
दश सप्त च वर्षाणि तव जातस्य राघव । आसितानि प्रकाङ्क्षन्त्या मया दुःखपरिक्षयम ॥ ४५
तदक्षयमहं दुःखं नोत्सहे सहितुं चिरम । विप्रकारं सपत्नीनामेवं जीणाषि राघव ॥ ४६
अपश्यन्ती तव मुखं परिपूर्णशशिप्रभम । कृपणा वर्तयिष्यामि कथं कृपणजीविकाम ॥ ४७
उपवासैश्च योगैश्च बहुभिश्च परिश्रमैः । दुःखं संवर्धितो मोघं त्वं हि दुर्गतया मया ॥ ४८
स्थिरं तु हृदयं मन्ये ममेदं यन्न दीर्यते । प्रावृषीव महानद्याः स्पृष्टं कूलं नवाम्भसा ॥ ४९

ममैव नूनं मरणं न विद्यते न चावकाशोऽस्ति यमक्षये मम ।
यदन्तकोऽद्यैव न मां जिहीर्षति प्रसह्य सिहो रुदतीं मृगीमिव ॥ ५०
स्थिरं हि नूनं हृदयं ममायसं न भिद्यते यद्भुवि नावदीर्यते ।
अनेन दुःखेन च देहमर्पितं ध्रुवं ह्यकाले मरणं न विद्यते ॥ ५१
इदं तु दुःखं यदनर्थकानि मे व्रतानि दानानि च संयमाश्च हि ।
तपश्व तप्तं यदपत्यकारणात् सुनिष्फलं बीजमिवोप्तमूषरे ॥ ५२
यदि ह्यकाले मरणं स्वयेच्छया लभेत कश्चिद्गुरुदुःखकर्शितः ।
गताहमद्यैव परेतसंसदं विना त्वया धेनुरिवात्मजेन वै ॥ ५३