पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मया पार्श्वे सधनुषा तव गुप्तस्य राघव । कः समर्थोऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः ॥ ९
निर्मनुष्यामिमां सर्वामयोध्यां मनुजर्षभ । करिष्यामि शरैस्तीक्ष्णैर्यदि स्थास्यति विप्रिये ॥ १०
भरतस्याथ पक्ष्यो वा यो वास्य हितमिच्छति । सर्वानेव हनिष्यामि मृदुर्हि परिभूयते ॥ ११
प्रोत्साहिनोऽयं कैकेय्या स दुष्टो यदि नः पिता । अमित्रभूतो निःसङ्गं वध्यतां बध्यतामपि ॥ १२
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथं प्रतिपन्नम्य कार्य भवति शासनम ॥ १३
बलमेष किमाश्रित्य हेतुं वा पुरुषर्षभ । दातुमिच्छति कैकेय्यै राज्यं स्थिमिदं तव ॥ १४
त्वया चैव मया चैव कृत्वा वैरमनुत्तमम । काम्य शक्तिः श्रियं दातुं भरतायारिनाशन ॥ १५
अनुरक्तोऽस्मि भावेन भ्रातरं देवि तत्त्वत । सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे ॥ १६
दीप्तग्निमरण्यं वा यदि रामः प्रवेक्ष्यति । प्रविष्टं तत्र मां देवि त्वं पूर्वमवधारय ॥ १७
हसमि वीर्याददुःखं ते तमः सूर्य इयोदितः । देवी पश्यतु मे वीर्य राघवश्चैव पश्यतु ॥ १८
हनिष्ये पितरं बद्ध कैकेय्यासक्तमानसम । कृपणं चास्थिरं वालं वृद्धभावेन गर्हितम ॥ १९
एतत्त वचनं श्रुत्वा लक्ष्मणस्य महात्मन । उवाच रामं कौसल्या रुदन्ती शोकलालसा ॥ २०
भ्रातुस्ते वदत पुत्र लक्ष्मणस्य श्रुतं त्वया । यदत्रानन्तरं कार्य कुरुष्व यदि रोचते ॥ २१
न चाधर्म्य वच श्रुत्वा सपत्न्या मम भाषितम् । विहाय शोकसंतप्तां मां वनं गन्तुमर्हसि ॥ २२
धर्मज्ञ यदि धर्मिष्ठो धर्मं चरितुमिच्छसि । शुश्रुष् मामिहस्थस्त्वं चर धर्ममनुत्तमम् ॥ २३
शश्रुषुर्जननी पुत्र स्वगृहे नियतो वसन । परेण तपमा युक्तः काश्यपस्त्रिदिवं गतः ॥ २४
यथेव राजा पूज्यस्ते गौरवेण तथा ह्यहम । त्यां नाहमनुजानामि न गन्तव्यमितो वनम् ॥ २५
तावद्वियोगान्न में कार्यं जीवितेन सुखेन वा । त्वया सह मम श्रेयस्तृणानामपि भक्षणम् ॥ २६
यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम । अहं प्रायमिहासिष्ये न हि शक्ष्यामि जीवितुम ॥ २७
ततस्त्वं प्राप्स्यसे पुत्र निरयं लोकविश्नुतम् । ब्रह्महत्यामिषाधर्मात समुद्रः सरितां पतिः॥ २८
विलपन्ती तथा दीनां कौसल्या जननी ततः। उवाच रामो धर्मात्मा वचनं धर्मसंहितम् ॥ २९
नास्ति शक्तिः पितुर्वाक्यं समतिक्रमितुं मम ।प्रमादये त्वं शिरसा गन्तुमिच्छम्यहं वनम् ॥ ३०
ऋषिणा च पितुर्वाक्य कुर्वता व्रतचारिणा । गौर्हता जानता धर्म कण्डुनापि विपश्चिता ॥ ३१
अस्माकं च कुले पूर्व सगरस्याज्ञया पितुः । खर्नाहः सागरैर्भूमिमवाप्तः सुमहान वधः ॥ ३२
जामदग्न्येन रामेण रेणुका जननी स्वयम । कृता परशुनारण्ये पितुर्वचनकारिणा ॥ ३३
एतैरन्यैश्च बहुभिर्देवि देवसमेः कृतम् । पितुर्वचनमक्लीबं करिष्यामि पितुर्हितम् ॥ ३४
न खल्वेतन्मयैकन क्रियते पितृशासनम् । एतैरपि कृतं देवि ये मया तव कीर्तिताः॥ ३५