मोदो दक्षिणः पक्ष: । प्रमोद उत्तर: पक्ष:
आनन्द आत्मा। ब्रह्म पुच्छम् प्रतिष्ठा।
तदप्येष श्लोको भवति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि ब्रह्म-आनन्दवल्ल्याम्
पञ्चमोऽतुवाकः ॥५॥
कर्मणोः प्रियाद्यर्थत्वाच्च । प्रियादिप्रयुक्ते हि विद्याकर्मणी । तस्मात्प्रियादीनां फलरूपाणामात्मसंनिकर्षाद्विज्ञानमयादस्याभ्यन्तरत्वमुपपद्यते । प्रियांदिवासना- निर्वृत्तो हात्मा आनन्दमयो विज्ञानमयाश्रितः स्वप्न उपलभ्यते। तस्याऽऽनन्दमयस्याऽऽत्मन इष्टपुत्रादिदर्शनजं प्रियम् शिर इव शिरः, प्राधान्यात् । मोद इति प्रियलाभनिमित्तो हर्षः । स एवं चं प्रकृष्टो हर्षः प्रमोदः । आनन्द इति सुखसामान्यम्, आत्मा प्रियादीनां सुखावयवानां तेष्वनुस्वूतत्वात्; 'आनन्दः' इति परं ब्रह्म । तद्धि शुभकर्मणा प्रत्युपस्थाप्यमाने पुत्र- मित्रादिविषयविशेषोपाधावन्तःकरणवृत्तिविशेषे तमसाऽप्रच्छाद्यमाने प्रसन्नेऽभिव्यज्यते । तद्विषयसुखमिति प्रसिद्धं लोके । तद्वृत्तिविशेषप्रत्युपस्थापकस्य कर्मणोऽनवस्थितत्वात्सुखस्य क्षणिकत्वम् । तैद्यदाऽन्तःकरणं तपसा तमोघ्नेन, विद्यया, ब्रह्मचर्येण, श्रद्धया च निर्मलत्वमापद्यते यावद्यावत्, तावत्तावद्विविक्ते प्रसन्नेऽन्तःकरण आनन्दविशेष उत्कृष्यते, विपुलीभवति । वक्ष्यति च-"रसो वैसः। रसम् ह्येयं लब्ध्वाऽऽनन्दी भवति ।....."एष होवाऽऽन-
च तत्साधनं चोद्दिश्य कर्ता विज्ञानकर्मणी अनुतिष्ठति, तत उद्देश्यत्वादस्याऽऽन्तय सिद्ध- मित्याह-विद्याकर्मणोरिति । प्रियादिविशिष्टस्य स्वप्ने साक्षिणोपलभ्यत्वाच न मुख्यात्म- त्वमित्याह-प्रियादिवासनेति । यदुक्तं ज्ञानकर्मणोः फलभूत आनन्दमय इति, तस्य साध्यत्वमौपाधिकं स्वमताहसारेणा- ह-आनन्द इति परमिति । कथं तर्हि विषयसुखस्य . क्षणिकत्वं, सातिशयत्वं च? व्याकवत्तिनिवन्धनमित्याह-तद्वृत्तिविशेषेति । ब्रह्मण आनन्दस्वभावत्वः एव किं प्रमाणमित्यत आह-वक्ष्यति चेति। अन्तःकरणशुद्धयुत्कर्षादेवाऽऽनन्दस्य सातिशयत्वम्-
(१) विवर्तितः-पाठः 1 (२) आनन्दः कारणाशने प्रतिबिम्बितः, बिम्बस्थानीयो वा; आत्मा-शिरः- पुच्छयोमध्यकायः; ब्रह्म शुद्धम् । कर्मफलस्यानन्दस्य सातिशयत्वानिरतिशयात्परमानन्दाद्ब्रह्मणोऽर्थान्तरत्व- मापतेदित्याशङ्कयाऽऽह-आनन्द इति परं ब्रह्मेति । ..(३) तद्यथाऽन्तः। तबदन्तः । पाठी (४). ते यावत्, तावद्विः पाठ....५) अन्तःकरणविशेष आनन्द उपाठ.