पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१२०

विकिस्रोतः तः
पुटपरिशीलयितुं काचित् समस्या अस्ति
८२
[ब्रह्म-आनन्द-वल्ली
तैत्तिरीयोपनिषत्


न्दयाति;"[१] "एतस्यैवाऽऽनन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति"[२] इति च श्रुत्यन्तरात् ।एवं च कामोपशमोत्कर्षापेक्षया शतगुणोत्तरोत्तरोत्कर्षम् आनन्दस्य वक्ष्यते [३] । एवं चोत्कृष्यमाणस्याऽऽनन्दमयस्याऽऽत्मन: [४] परमार्थब्रह्मविज्ञानापेक्षया ब्रह्म परमेव, यत्प्रकृतं सत्यज्ञानानन्तलक्षणं, यस्य च प्रतिपत्त्यर्थं पञ्चान्नादिमयाः कोशा उपन्यस्ताः, यञ्च तेभ्य आभ्यन्तरं, येन च ते सर्व आत्मवन्तः, तद्ब्रह्म पुच्छं प्रतिष्ठा । तदेव च सर्वस्याविद्यापरिकल्पितस्य द्वैतस्यावसानभूतमद्वैतं ब्रह्म प्रतिष्ठा, आनन्दमयस्यैकत्वावसानत्वात् । अस्ति तदेकमविह। कल्पितस्य द्वैतस्यावसानभूतमद्वैतं ब्रह्म प्रतिष्ठा पुच्छम् । तदेतस्मिन्नप्यर्थ एष श्लोको भवति।

इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवत:

कृतौ तैत्तिरीयोपनिषदि ब्रह्म-आनन्द-वल्लीभाष्ये पञ्चमोऽनुवाकः॥५॥


इत्यत्र लिङ्गमाह-एवं चेति । यदि विषयविशेषजन्यत्वेनाऽनन्दोत्कर्षः, तदा निष्कामस्य विषयविशेषोपभोगासंभवादानन्दोत्कर्षो न श्राव्येत । आत्मस्वभावस्यैवाऽऽनन्दस्य व्यञ्जकान्तःकरणशुद्ध्युत्कर्षादेवोत्कर्षः-इत्येवं तु सति, अकामहतत्वोत्कर्षांदुत्कर्षः संभाव्यत इत्यर्थः । उक्तप्रकारेण विषयानन्दस्य सातिशयत्वे सति, तद्विशिष्टस्याऽऽनन्दमयस्याब्रह्मत्वं सिद्धम्- सातिशयत्वेन प्रतिशरीरं भिन्नत्वात् । ब्रह्म तु तदध्यासाधिष्ठानमद्वितीयमित्याह-एवं चेति । एतस्मिन्नप्यर्थ इति । आनन्दमयस्य प्रतिष्ठाभूतब्रह्मप्रकाशनपर इत्यर्थः [५]

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते तैत्तिरीयोप-

निषच्छांकरभाष्यटिप्पणे ब्रह्म-आनन्द-वल्ल्यां पञ्चमोऽनुवाकः॥५॥


(१) तै. उ. २.७. (२) बृ. उ. ४. ३. ३२. (३) ८ अनुवाके. ( ४ ) अनात्मनः-पाठः (५) विज्ञानध्यानतो नश्येन्मनस्यात्मत्ववासना । विज्ञानात्मत्वमप्येष त्यजेच्छोकयुतत्वतः ॥ ७२ ॥ शोकं तरत्यात्मबोधादिति श्रुत्यन्तरे जगौ । शोकसागरमग्नोऽयं कर्ता तस्यात्मता नहि ॥ ७३ ॥ आनन्दस्यात्मता युक्ता सोऽत्रास्ति प्रीतिदर्शनात् । सदा भूयासमेवेति नित्यं प्रेमात्मनीक्ष्यते ।। ७४ ।। आनन्दैकस्वभावोऽपि कर्तृविज्ञानसङ्गमात् । निजानन्दं तिरस्कृत्य कदाचिच्छोकमाप्नुयात् ।। ७५ ॥ समाधिसुप्तिमूच्छासु विज्ञानस्यलये सति। नित्यानन्दस्वरूपेऽस्मिन्छोकोऽल्पोऽपि न वीक्ष्यते।। ७६ ॥ मूर्छासुप्त्योर्यदज्ञानं भाति तत्करणं धियः । कारणे बुद्धिवृत्तौ च स्वानन्दः प्रतिबिम्बति ।। ७७ ॥ दुःखं राजसधीवृत्तौ सात्त्विक्यां तत्सुखं भवेत् । प्रियं मोदः प्रमोदश्चेत्युच्यते धीसुखं त्रिधा ।। ७८ ॥ इष्टस्य दर्शनाल्लाभाद्भोगाच्च स्युः प्रियादयः । ते त्रयः कारणानन्द आत्मानन्दश्च पञ्च ते ।। ७९ ।। पक्षिणोऽवयवाः पन्च मूर्दाद्यास्तेषु कल्पिताः । आनन्दमयकोशोऽयमुपास्यः पूर्वकोशवत् ॥ ८॥ अन्नप्राणमनोविज्ञानानन्दैनिता इमे । कोशास्तेषु क्रमेण. स्युरुत्तरोत्तरमान्तराः ।। ८१ ॥ विज्ञानकोशन्यायेन : फलमुन्नीयतामिह । तदुपास्तिफलं चाांत्तत्त्वबोधफलं भवेत् ।। ८२॥ आनन्दं ब्रह्म विज्ञाय त्यजेदामरणं न चेत् । शरीरे पाप्मनो हित्वा. सर्वान्कामानवाप्नुयात् ॥ ८३॥

  1. (१) तै. उ. २.७.
  2. (२) बृ. उ. ४. ३. ३२.
  3. ८ अनुवाके
  4. अनात्मनः-पाठः
  5. विज्ञानध्यानतो नश्येन्मनस्यात्मत्ववासना । विज्ञानात्मत्वमप्येष त्यजेच्छोकयुतत्वतः ॥ ७२ ॥ शोकं तरत्यात्मबोधादिति श्रुत्यन्तरे जगौ । शोकसागरमग्नोऽयं कर्ता तस्यात्मता नहि ॥ ७३ ॥ आनन्दस्यात्मता युक्ता सोऽत्रास्ति प्रीतिदर्शनात् । सदा भूयासमेवेति नित्यं प्रेमात्मनीक्ष्यते ।। ७४ ।। आनन्दैकस्वभावोऽपि कर्तृविज्ञानसङ्गमात् । निजानन्दं तिरस्कृत्य कदाचिच्छोकमाप्नुयात् ।। ७५ ॥ समाधिसुप्तिमूच्छासु विज्ञानस्यलये सति। नित्यानन्दस्वरूपेऽस्मिन्छोकोऽल्पोऽपि न वीक्ष्यते।। ७६ ॥ मूर्छासुप्त्योर्यदज्ञानं भाति तत्करणं धियः । कारणे बुद्धिवृत्तौ च स्वानन्दः प्रतिबिम्बति ।। ७७ ॥ दुःखं राजसधीवृत्तौ सात्त्विक्यां तत्सुखं भवेत् । प्रियं मोदः प्रमोदश्चेत्युच्यते धीसुखं त्रिधा ।। ७८ ॥ इष्टस्य दर्शनाल्लाभाद्भोगाच्च स्युः प्रियादयः । ते त्रयः कारणानन्द आत्मानन्दश्च पञ्च ते ।। ७९ ।। पक्षिणोऽवयवाः पन्च मूर्दाद्यास्तेषु कल्पिताः । आनन्दमयकोशोऽयमुपास्यः पूर्वकोशवत् ॥ ८॥ अन्नप्राणमनोविज्ञानानन्दैनिता इमे । कोशास्तेषु क्रमेण. स्युरुत्तरोत्तरमान्तराः ।। ८१ ॥ विज्ञानकोशन्यायेन : फलमुन्नीयतामिह । तदुपास्तिफलं चाांत्तत्त्वबोधफलं भवेत् ।। ८२॥ आनन्दं ब्रह्म विज्ञाय त्यजेदामरणं न चेत् । शरीरे पाप्मनो हित्वा. सर्वान्कामानवाप्नुयात् ॥ ८३॥