पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८०
[ब्रह्म-आनन्द-वल्ली
तैत्तिरीयोपनिषत्


रणमुपपद्यते; 'ब्रह्म पुच्छम् प्रतिष्ठा' इत्यपि चानुपपन्नम् पृथग्ब्रह्मणः प्रतिष्ठात्वेन ग्रहणम्-तस्मात्कार्यपतित एवाऽऽनन्दमयः, न पर एवाऽऽत्मा। 'आनन्द' इति विद्याकर्मणोः फलम्, तद्विकार आनन्दमयः। स च विज्ञा- नमयादान्तरः, यज्ञादिहेतोर्विज्ञानमयादस्यान्तरत्वश्रुतेः।ज्ञानकर्मणोर्हि फलं भोक्त्रर्थत्वादान्तरतमं स्यात् । आन्तरतमश्चाऽऽनन्दमय आत्मा पूर्वेभ्यः । विद्या-


'मालवासंभवे हेत्वन्तराण्याह-शिरआदीत्यादिना । आनन्दमयस्य परमात्मत्वविव- धायां, मन्त्रे तस्यैवासत्वाशङ्का वक्तव्या; तदसंभवाच नाऽनन्दमयः परमात्मतया प्रतिपायत इत्याह--चोदाहरणानुपएत्तेश्चेति। न हि "मन्त्रोदाहरणमुपपयते' इति संबन्धः। विशिष्टस्य विशेषणकार्यत्वात् , ' मुख्यहम् ' इत्युपलभ्यमानो भोकाऽनन्दसय इत्युक्तम्। कथं तस्य विज्ञानमयादान्तरत्वम् ? इत्यत आह–स चेति । कञपेक्षया भोक्तृत्वस्योत्तर- भावित्वं प्रसिद्धमेव. श्रुत्वोकमित्यर्थः । एतत्स्फुटयति-ज्ञानकर्मणोहोति । शरीरादिभ्य आनन्दसायनेभ्यः सकाशात्साध्येनाऽऽनन्देन विशिष्टोऽन्तरतमः प्रसिध्यतीत्यर्थः । किंच, प्रियं (१) सुरुदि ज्ञानकर्मफलम् , तदात्मकं यदन्तःकरणं, तदुपाधि यत्प्रत्यगात्मनो विज्ञानं-चैतन्याभासः, सोऽत्र आनन्दमय' शब्देनोच्यते । प्रत्यगात्मनः शुद्धस्वभावस्यापि बुद्धौ प्रियादिपरिणामोदये सति तदुपर- कतया चैतन्याभासो जायते, तदा तदुपाधित्वादविद्ययाऽऽत्मा भोक्ता स्यात् । (२) यथा प्राणमयेन व्याप्ते देहे कृत्नेऽपि प्राणकार्य चलनमुपलभ्यते; यथा च मनोमयेन व्याप्ते प्राणविशिष्टे देहे सर्वस्मिन्नपि मनःकार्यभूता चेतनत्वलक्षणा ज्ञानशक्तिरुपलभ्यते; यथा च विज्ञानमयेन व्याप्ते मनःप्राणोभयंविशिष्टे देहे कृत्लेऽप्यहं कर्तेति कर्तृत्वमुपलभ्यते; एवमानन्दमयेन व्याप्ते विज्ञानमनःप्राणविशिष्टे देहे हस्तपादा- दिषु सुखविशेषा उपलभ्यन्ते । तदेतदानन्दमयपूर्णत्वम् । सुखवदुःखमपि हस्तादिष्पलभ्यत इति चेदु- फ्लभ्यतां नाम । दुःखात्मकवृत्तिहेतुना मनोमयेन देहस्य पूर्णतया तदुपपत्तेः । दुःखस्य मनोमयधर्मत्वं, सुख- स्यानन्दमयधर्मत्वम् । आनन्दो दुःखाभावो न भवति, तदनिरूप्यत्वात् । यदुःखेन न निरूप्यते, तदुःखाभावो न भवति, यथा घटः । अभावत्वे तु प्रतियोगिनिरूप्यत्वेन दुःखस्मृतिपुरःसरमेव प्रतीयेत । यद्वा, आनन्दोऽयं भावरूपः प्रतियोग्यनिरूप्यत्वात् , घटवत् । यद्वा, आनन्दोऽयं भावरूपः, सातिशयत्वात् , दुःखवत् । स चा- नन्दः कर्तृत्वमोत्कृत्वोपेतस्यात्मनो मनःसंयोगजन्यः क्षणिको गुण इति वैशेषिकाणां मतम् । बुद्धिसुखदुःखेच्छा- दीनां नवानां तैरात्मविशेषगुणत्वाङ्गीकारात् । सांख्यास्तु मन्यन्ते-आत्मनोऽसङ्गत्वादिच्छाद्याः प्रकृतिगतगु- णत्रयपरिणामाः । तत्र सुखं सत्त्वगुणपरिणामः । प्रवृत्ती रजोगुणपरिणामः । प्रमादस्तमोगुणपरिणामः-इतिः तथाच भगवताप्युक्तम्-'सत्त्वं सुखे संजयति रजः कर्मणि भारत। ज्ञानमावृत्य तु तमः प्रमादे संजयत्युत॥" (भ.गी. १४.९. ); न्यायैकदेशिनस्त्वेवमाहुः-यद्विषयसुखमस्ति, तदुःखानुषङ्गादुःखमेव । त एते वैशिषि- कादिपक्षाः पुरुषबुद्धिभिरुत्प्रेक्षिताः। श्रुतित्त्वात्मस्वरूपभूतस्य नित्यानन्दस्य स्वतन्त्रद्रव्यस्य लेशो विषयानन्द इत्याचष्टे-" एषोऽस्य परम आनन्दः । एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति " (बृ. उ. ४. ३.३२.) इति । यद्यपि प्रियमोदप्रमोदामनसः करणरूपस्य वृत्तिविशेषतया कर्तृरूपाद्विज्ञानमयावहिर्भूताः, तथाप्या- न्तरस्यावच्छिन्नजीवानन्दस्य, अनवच्छिन्नम्मानन्दस्य वा प्रतिबिम्बं धारयन्तीत्यान्तरत्वमभिप्रेत्य विज्ञानमया- दभ्यन्तर आत्माऽऽनन्दमय इत्युक्तम् ।