नीतिशतकम् (धनदविरचितम्)
← शृङ्गारशतकम् (धनदविरचितम्) | नीतिशतकम् धनदः १९१६ |
वैराग्यशतकम् (धनदविरचितम्) → |
नीतिधनदाभिधानं द्वितीयं शतकम् ।
जिनवरपदपूजादत्तचित्तः सुवित्तः
खरतरमुनिशिक्षाधीतविश्वोपकारः
स जयति धनराजो देहलस्यैकवीरो
नयधनदमितीदं यस्य नाना चकास्ति ।
नीति म सदञ्जनं क्षितिभुजां सूक्ष्मार्थसंदर्शकं
सिद्धः कोऽपि रसोऽपरो जयमन सर्वायसां रञ्जकः ।
बारीवेन्द्रियमन्तवारणपश्चापल्यसंरोधिका
लक्ष्मीरक्षणयामिकः खलमनोदुष्टाहिबन्धौषधिः ॥ २ ॥
तारुण्यं प्रभुता धनं त्रयमिदं यत्रैकसंस्थं भवे-
त्तत्रास्ते न विवेकिता सहनयकैकतो दाधया(?) ।
नित्या नैपुणनिष्ठया प्रतिपदं हस्तावलम्बो न चे-
देतस्याः किल दीयते निजनिजः पन्थाश्च तेषां न वा ॥ ३ ॥
नीतिः संपदि भूषणं विपदि वा देवाद्विहन्तुं पुन-
र्दैवं सिद्धमहोद्यमा कृतधिया भन्देव संतोषकृत्
भूभृत्सद्म विहारकौतुकजुषो धात्रीव यस्याः श्रियो
धर्मस्यागमपद्धती रसवतां सन्मार्गदीपावलिः ॥ ४ ॥
कीर्तिश्रीव्यवहारसांधनतया पुंसां प्रधानं नयः
संदेहार्णवमजदीश्वरमनःसंतारणे सत्तरिः
मन्त्रस्थानमुदारताजतरणिः कामारिंदर्पापहा
चेतःसद्मनि सज्जनस्य रमते नानाविनोदास्पदम् ॥ ५ !!
सूते संसदि संमदं वितनुते युद्धं विनैव श्रियं
रुन्धे दुर्जनचेष्टितं यति परं तेजांसि वैरात्मनाम् ।
बन्धून्वर्धयति प्रसज्य सुहृदः संतोषयेदेकतो
नीतिः कस्य न वल्लभोपकरणं नानाविधं तत्त्वतः ।।६।।
भूपैर्भूपसुतैः प्रधानपुरुषैरन्यैश्च सेवापरैः
सेव्यं नीतिविवेचनं तत इतो न स्यात्प्रमादः क्वचित् ।
हन्तुं वैरिणि सोयमे नयविधिः कुण्ठं करोत्यायुधं
शस्त्रेणापि विना करे नयविदा बुद्धिर्भवेदायुधाम् ॥ ७ ॥
परिणतजनसेवा संगतिः सज्जनानां
कविगुरुमनुशास्त्रावेक्षण सभ्यगोष्ठी ।
नृपसदसि नितान्तासत्तिरध्यात्मचिन्ता
गुरुनगरनिवासः कारणं नीतिवित्तेः ॥ ८॥
ज्ञेया नीतिभूमिपालेन यलाद्योगक्षेमौ यदशौ यत्प्रजानाम् ।
कार्याधीने यस्य मैत्री विधत्ते प्राणापायः पुत्रतोऽपीह नीयः ॥ ९ ॥
बालः पुत्रो नीतिवाक्योपचारैः कार्ये कार्ये यत्नतः शिक्षणीयः ।
लेखा लगा यामपाने विचित्रा नासौ नाशं पाककालेऽपिं याति ॥ १०॥
प्रकृतिभिरनुवेले. चिन्तनीयः कुमारो
नयविनयकुलीनाचारचातुर्यशौर्यः ।
निरपतिकुललक्ष्मीहस्तिनी यन्न बद्धा
जयजुषि युगवाही चञ्चलत्वं जहाति ॥ ११ ॥
मद्यासक्तिश्छद्म5दः परस्त्रीसेवा दाने कातरत्वं प्रमादः ।
लोकावज्ञेकान्ततो वासबुद्धिर्हासप्रीती राजपुत्रस्य दोषः ।। १२ ।।
प्रकृतिवचसि जातप्रत्ययोऽधीनविद्यः
समधिकबहुशस्त्रः शिल्पविद्यागुरुश्च ।
प्रथममधिगतार्थों विद्विषाचाररीत्या
नरपतिरिति भुङ्क्ते राज्यमव्मयग्व्यारमेकः ।। १३ ।।
भूमिर्भूपतिवल्लभा बहुगुणा नूनं प्रजास्तत्सुता-
स्तां वाञ्छन्नपि तान्निजानभिभवन्भूपेन बध्यः स्वयम् ।
भूम्यर्थ रिपुसंगरेष्वभिहता यान्तो रुषा संमुखं
योगिप्राप्यमवाप्नुवन्ति हि पदं भूमीभृतस्तत्क्षणात् ।। १४
भग्ने राजबले परेण बलिनाक्रान्ते रणप्राङ्गणे
धीरः कोऽपि निवर्तते यदि ततो धन्या प्रसूस्तस्य तु ।
एकैकस्य महाक्रतोः प्रतिपदं यस्य प्रशस्तं फलं
भीतत्राणकलातिरेकमहिमा लोके भवेदस्य वा ॥ १५ ॥
आरब्धस्यापवर्गे स्फुरदमलमतिर्मुक्तमानो नतानां
वित्तायत्तात्मवर्गः प्रतिकृतिकुशलः सेवकानां कृतेषु ।
विज्ञानस्यैकसीमा गुरुगुणमहिमा धर्मकार्ये प्रवीणः
सेव्यो नाथो वदान्यः सहजकरुणया दीनवत्तावधानः ॥१६॥
मर्मस्पृङमर्मवाचा कथितपरगुणः प्रस्तुते चोपकारे
दीने हानावधानो विदितमपि सकृदूषणं श्रोतुकामः ।
काले काले धनानां स्मरति च समये सेवकनाक्तानां
ताडक्सेव्यो न सेव्यो यदि धरणिरियं राजशून्यापि जाता।॥१७॥
बाढात्तस्करतोऽपि साहसिकतो वैधर्मिकात्कामुका-
बूदिक्षविनोदतोऽथ रजनीवीराच्च धात्रीसुतात् ।
कायस्थानिजमन्त्रिणः खपुरुषानामीणपुत्रादितः
प्रौढस्थानिकशासनाद्रदतो रक्षन्प्रजाभूपतिः ॥ १८ ॥
परयुवतिकथाविदूषकानां वचसि न हासरसः सता विधेयः
अपरजति जनस्तथा कथायां पदमपरागपदं महद्विपत्तेः ॥ १९ ॥
किं नान्तमलिनः शशी न कुटिलः शेषो द्विजिह्वो न किं
शक्रः किं न बहुच्छलो ननु रविः सन्मार्गसंतापकृत् ।
मार्गः किं न मलीमसो हुतभुजो लोकैरिमेताहता(?)
इत्थं चेतसि संनिधाय पिशुनो द्वेषे प्रवृत्तः सताम् ॥ २० ॥
तूष्णीमास्ते प्रसन्नो वितरणविमुखः संशयोत्साहकारी
दैवाज्जातेऽपराधे कथयति सहसा शासनं प्राणहारे
विज्ञप्तः कोपमेति प्रसभमभिहितो हासमन्त्रोत्तरो वा
गर्वाखर्वप्रमादो रणगणितकुलः सेवनीयो न भूपः ॥ २१ ॥
अविगतजगतार्थो नीतिमार्गोपदेशा-
ज्जनपदहितहेतुः सामदानप्रवीणः ।
बहुसचिवकुलेभ्यो दृष्टशिष्टोपचारः
स्थिरयति किल मन्त्री राज्यलक्ष्मीं चिरेण ॥ २२ ॥
सहायाः संग्रामे प्रथितकुलमाना मदमुदः
प्रवीणा बाणासे स्मरसमरभेदं विदधतः ।
वशं नीता वित्तविगलितभिदा नापि मिलिता
जयश्रीस्वीकार दृगमिव निजासून्विजहतः ॥ २३ ॥
पापालापजडाः कलासु कुशलाः प्रेरणा परं कोमला
भूभृत्कर्मणि निर्मलाः शुचितया लोकोपकारोद्यताः ।
लोभातीतधनार्जना जनमनःसंतोषकारीहिताः
सभ्या दम्भपराङ्मुखाः प्रतिपदं वाचा मृषा भीरवः ।। २४ ॥
न्यायादेव धनार्जनं वितरणं पात्रेषु तस्य स्वयं
कान्ता रूपवती सती पुनरदः सङ्गः कदाचिद्यदि ।
लब्धो दीर्घतपस्ययापि तनयः प्रेप्यो रणे विद्विषां
केनायं विधिरङ्ग दुष्करतरः सृष्टः सतां शीलहृत् ॥ २५॥
वृक्षः सीमारजनिरवनीजातसीता नितान्तं
बाहुः पन्था नगरमुदितं संगरे सद्भटानाम् ।
कोशः केशो नयनमलसं संशये वाविचारो.
दीर्घा रम्या नगरमटवीवीचयो नीतयश्च ॥ २६ ॥
दक्षः शूरो धर्मबुद्धिः कलाविद्भक्तौ निष्ठः शक्तिसिक्तो विविक्तः ।
स्वामिप्रेष्ये निर्मयः प्राणनाशे पाल्यो यत्नात्सेवको भूमिपालैः ॥ २७ ॥
आलस्योपहतः स्मरातुरमना दैवप्रमाणो धने
भीरुः कातरसंगतो बहुगुरुः पुत्रप्रियो मन्दधीः ।
निद्रालुर्बहुभीषणोऽतिमुखरः पानप्रियोऽहंकृतः
शुत्रोः पौरुषगायकः प्रतिवचोदाता च नो सेवकः ।। २८ ।।
सौन्दर्यैकनिधिर्महाकुलभवा मञ्जुस्वराह्लादिनी
भर्तुर्भक्तिपरायणा करुणया संतोषयन्ती जनम्
नानाधर्मकथाविचारचतुरा दाक्षिण्यभृल्लक्षणा
योग्या पुत्रवती महोदयगुणा पट्टाभिषेकोचिता ॥ २९ ॥
मानान्भोधेगस्त्यः कुलमदविपुलच्छेदभेदे कुठारः
स्वातन्त्र्यं ह्राससीमा मदनरसदशप्रेयसीसङ्गविघ्नः ।
दैत्या हीनोक्तिपाठमबलबलगुरुलाघवस्यैकबन्धुः
सेवा केयं जनानां परगुणमहिमायासभावैकहेतुः ॥ ३० ॥
सिक्तः सेवासुधामिः फलति नृपतरर्वाञ्छितैरर्थजातै-
दैवं हत्वा नितान्तं वितरति विविधाः संपदः संगतात्मा
प्रौढाहंकारवैरिक्षितिधरशिष(ख)रे हन्त वज्रायमाना
सद्यः प्रोत्साहयन्ती त्वहमहमिकया निन्दनीया न सेवा ॥३१॥
विज्ञानं नयकौशलं च शुचिता शूरत्वमन्तः क्षमा
सर्वोपाययथोचितप्रणयनं वक्तृत्वमन्तःसभम् ।
सत्यत्वं च परोपयोगि सकलं जीवादिकं यदशा-
तो सेवां मनसापि मा स्पृश सखे दुःखैकपानं महत् ॥ ३३ ॥
भूयो भूयो नमति शिरसा पादयोरीश्वराणां
वाञ्छन्नुच्चैः पदमधिफलं साधयन्नात्ममानम् ।
जीवं मुञ्चेच्छरशतहतो जीविकानीहमानः
प्रायो दुःखं सहति सुखिताहेतवे सेवकोऽज्ञः ॥ ३३ ॥
हीने तेन कुलेन लक्षणलवेनापृष्ठकाये तथा
पुण्यानामपि भाजनेन निपुणे नीतौ जने निर्गुणे ।
लक्ष्मीश्चञ्चलतां विहाय सहजामास्ते चिरं यत्फलं
सेवायास्तदवेहि वारणघटा द्वारे च या क्रीडति ।। ३४ ॥
चकितहरिणयोपिल्लोलनेत्राञ्चलनी-
नैवदलसमहस्ताबद्धसच्चामराग्नः ।
संदसि सुखकथाभिनीयमानं दिनानि
थयति खलु सेवा प्रौढिमाराधयन्ती ॥ ३५ ॥
अन्यस्याशयवोदि (धि)ता नययथा(ता) स्थानोपदेशज्ञता
विज्ञानाध्ययनश्रमप्रतिकृतिः सभ्यार्थसंख्यास्थितिः ।
नानादेशविनोदवेदनसुधीः कीर्तिकमाध्यापिका
सेवा काचन देवता परधनस्याकर्षिकोपासिता ॥ 3६ ॥
निद्राभोजनमासनं च वचनं हासोऽथ वेषः सुखं
तोषः कौतुकचेष्टितं कविकथा कामः क्रमो विग्रहः ।
बात्सल्यं निजपौरुषं नयविधिः प्रीतिः कथागीतिषु
प्रायः सेवकपूरुषस्य सकलं स्यादन्यवश्यं सदा ।। ३७ ॥
जस्तानामुपकारिता सुबहुशो गर्वच्छिदा हंकृतः
कार्यारम्भणनैपुणं निजसुहृत्प्राप्तार्थसंयोजनम् ।
गोष्ठीशीलमहर्निश नयविधिः प्रस्तावतो भाषणं.
शङ्काभावधनार्जने रसिकता विद्यासु सेवाकृतः ॥ ३८ ॥
पिबन्ति जगतो मत परिसरन्ति शत्रोहे
बहुच्छलकथारसा विविधशिल्पपण्याश्रयाः ।
वृथा तपसि सादरा नृपतिमन्त्रिपुत्रप्रिया-
श्वरा नगरवीथिका कलितमन्दिरा भूभुजः ।। ३९ ।।
दूरानाधिपरम्पराश्चजननीपित्रोः कलावर्णनं
भूयान्वालंदशारयो जनमनःसंतोषतः पालनम् ।
नानाग्राहकवादवर्धितमिदं मूल्यं नृपाणां ग्रहो
वाहस्वाशययौरुषाशन विधिर्वाच्यो हयाजीविभिः ॥ ४० ॥
पृच्छामो प्रातरो वः सकलजनमनोरञ्जनोपायमेकं
ब्रूध्वं निधोपकारव्रतनियतधियः शास्त्रमाद्यं विचार्य
सर्वेषां भो परोक्षे वद गुणनिकर दोषलेशेऽपि मूढो
दम्भं दूराद्विमुच्याचर शुचि चरितं केवलं वाचिरेण ॥ ४१ ॥
अहंकारारिप्सोः परगुणविवक्षोश्च कलिता
भिदा सिद्धिं लिप्सोरुचितमुदयं कार्यमखिलम्
चिरेणैकः कार्यं घटयति परं दुःखबहुलं
सुखेनान्यः सद्यो गुणमनुवदन्तेन विहसन् ॥ ४२ ॥
धातर्धातरकारि चेतसि दया नाकारि किं तद्धनं
तच्चेन्निर्मितमाहता न किमियं तेषां विवेको न वा ।
सोऽपीष्टो यदि किं ततः सुकृतिनो नो याचकाः प्रापिताः
प्रायः सर्वगुणोपपादनविधौ वैमुख्यमाप्तं कुतः ॥ १३ ॥
हूतावज्ञातृशङ्को दशरथनृपतेर्धव्लीयाधलीलानुरागो
बन्धुश्रीमत्सरत्वं सहजशतगुरोर्वारुणी यादवानाम् ।
कौन्तेयस्याक्षदीक्षा परयुवतिरसो रक्षसामीश्वरस्य
भूयो भूयः प्रतिज्ञास्मरणममिभवायैव रामस्य जाने ॥ १४ ॥
निद्रामौनपरोज्झित न तमसा क्रान्तं जरायां पर
नो दुष्टं निजकाचकामलरुजातीतार्थवीक्षापटु ।
शास्त्रं लोचनमेकमेव सफलं स्यादञ्जनं यत्सतां
गूढार्थ निधिमीक्षितुं कृतधियामुत्साहवर्धकम् ॥ ४५ ॥
छान्यार्जवमार्जवे च कपटो विष्टेऽच मैत्री तथा
मित्रे द्वेषणता हटेतिमृदुता स्वान्मार्दवे वा हठ;
सुस्निग्धे परुषत्वमेव पुरुषे सेहो न वा स्वच्छता
स्तब्धे वानतिरेकतो न सुभगा भीते हिते निर्भयम् ॥ ४६ ॥
दोषावेक्षणाचातुरी परधनव्यर्थव्ययोत्साहधी-
र्नीतिद्वेषधनादरो नयविदा निन्दा कथाया मिथः ।
विघ्नः पुण्यकथासु संसदि सतो हासस्य दृष्टान्नतः
म्युर्जिन्यनिवन्धनानि गुमिना हेयानि दूरादरम् ॥ १७ ॥
न्यग्रोधाध्वनि रोपितोऽसि कृतिना विश्रामहेत्तोरथ
च्छायावानसि शीलितोऽसिन पुरा दृष्टोऽसि दूरात्कली।
खेलद्वानरयूथनायकमुखन्नस्यच्छिशनामहो
मू_मोहजलार्थिनी निपतिता कूपे कचिद्गहिनी ॥ १८ ॥
रोहिण्या निजवल्लभस्य हृदये कस्तूरिकालेपन
यदत्तं रसपेशलेन विधुना लुप्तं च न प्रेमतः ।
लक्ष्मैतस्किल कल्पितं समभवत्करमादिदं तत्कयो-
प्रेक्षाकौतुकतो विनिश्चितमिदं पापं महादुर्जनः ॥ १९ ॥
श्रोता चेत्खलजल्पितस्य पुरतो हुंकारदाता भवे-
देकः कोऽपि न सज्जनस्य चरिते दोषाः कियन्तस्तदा ।
संभाव्या यदि सज्जनस्य पुरतो दोषैकभूमिः कृते
दुष्टानामपि नो गुणाः कति कति स्युर्दोषजाते तदा ॥ ५० ॥
सिन्धों रलाकरोऽसाविति मुदितमनाः कोऽपि लुब्धो धनी नः
प्राप्तस्त्वत्तीरमाराजलमुपरसनं थूत्कृतं तृष्यतापि
दृष्टास्ते ते सहाया मकरविषधरा मजतो पामरारो()-
मिन्नो भूर्धा क रलं चिरनिबिडमिलत्पङ्कमग्नं नु दृष्टम् ॥ ५१॥
कोपारोपे चेतना धर्मभाजो दीने दृष्टे दीनतैवान्तरास्ते
कामासक्तावेकदारोपसेवा पर्वताप्ती शीलनीयास्ति()रेव ।। ५२ ॥
सुमतिभिरुदिता समाधिगम्या
परिणतपुरुषैः कृता समासा ।
नहि परिणतिभाजा न जानन्ति शास्त्रं
न हि तदपि सदेतवत्र धर्मो न नीतः ॥ ५३ ।।
कोऽयं लोकेऽपवादः स्तुतिनिकरपदे यंद्यशीले चला श्रीः
साधूनुन्माय सधस्तरलयति चिरं भूयसा छद्मना यः ।
यस्तस्याश्चञ्चलत्वं कलयति मनसा यातुमुद्यच्छलाया
दाने भोगोपयोगे व्ययकरणमदो दोषनिर्यातनाय ॥ ५४ ॥
उत्पत्तिः क्षीरसिन्धोः सहजशुचिरुचेरेप पीयूषमूर्ति-
र्बन्धुर्देवस्त्रिलोकस्थितिकलितजनुर्दुःखमारेऽपि भर्ता
पद्मे केनोपदिष्टो भगवति कुलजा निन्दितो मन्त्रपाठो
यत्ते दृष्या जनानां मुखनयनमहो वैकृतं याति तूर्णम् ॥ ५५ ॥
गुरोर्वचनकारिता विधिषु दत्तभूरीक्षणः
पुरो भवति तेजसो वशितदर्पकः कर्मणि
कणादकृतसंमतिः प्रथितमन्युमानोदयः
सुराधिपं इवोद्यतो भवति लोकपानाग्रणीः ।। ५६ ॥
शुचिः स्फुरति नाम नो सदसि यज्वनामग्रणी-
निजाशनविधौ कृतप्रचुरवर्गतृप्तिः क्षणात् ।
धनंजयमहोजसोस्तमसि चित्तजातस्मृतेः
पुरंदरकृतान्तयोः समतयेव मध्यस्थितिः ।। ५७ ।।
धर्मावेक्षणकौतुकेन गणितप्राणिप्रमोदादयः
शक्तिपापितदण्डनीतिमहिमा वाहद्विषत्प्रेरणः
आयुर्मर्मविवेचनः स्मृतिजुषामेकः परासो रसा-
प्रायोपायवशीकृताखिलजगत्कोऽपीह धन्यो जनः ॥ ५८ ॥
नान्ना पुण्यजनोऽयमाधिकपदो दृष्टप्रचेतःस्थितिः
खङ्गाधीतिविचक्षणः क्षणदया जाग्रद्विहारोदया
वाञ्छामात्रसुसिद्धकार्यगरिमा बीभत्सितो. निर्भयो
धीरः कोऽपि चतुर्थदिक्पतिसमो मन्युप्रदद्वेषणः ॥ ५९ ॥
प्रतिजलनिधिजागन्नामधामाभिरमः
शरणंगतमहीभृत्पक्षसंवर्धनश्च ।
परिचितबहुशब्दो नागराजोक्तिबोधा-
द्वरुण इव विनीतो नायकः साध्यवक्रः ॥ ६० ॥
भूयो भूयो मृदुः सन्स्पृशति सुमनसः कम्पयञ्जानुशाखा-
माशामेकां च गृह्णन्कवलयति दिशो वेगतः स्याद्दशापि
तोषं तोषं निजांशैरपि कुटिलगतीन्नाजसंभावमाप्तः
सद्यस्तब्धानितान्तं नमयति तरसा स्वादकम्पो रुषापि ॥ ६१ ॥
बहुविधधनरक्षासिद्धवित्ताधियन्त्रः
शुचिविततगलापन्मानसोऽपीशमित्रम् ।
नरपतिकरयानः सर्वविज्ञानसीमा
नरपतिरिति चेष्टस्त्यक्तबन्धूपतापः ।। ६२ ।।
सर्वज्ञोऽनन्तशक्तिः क्षितिमृदधिपतेः कन्यया दत्तरागो
नित्यं स्निह्यत्कुमारो गुणिगणपरिषद्गीततत्संपरायः ।
उद्यन्नेत्रः प्रकोपे रजनिचर सहक्रीडया शीलिताज्ञः
सर्वाधीशैकामान्यःक्वचिदपि विषये विद्यमानो नरेश ।। ६३ ।।
भूभारोद्धरणैकसाहसरसो नानेक्षणः कार्यतो
विधाधीतवचा क्रमः कुटिलतामाप्तां जहत्सेवया ।
निःशङ्को बलिना परेण निलये क्रान्तेन गोपायते
मित्रीयत्सुरुषोत्तमो विजयते नागेशवद्भूपतिः ॥ ६४ ॥
नामा निर्माणलीलागमितदिननिशो वेदवेदान्तसिद्धौ.
शश्वद्दतावधानो विविधविधिकथाकौतुकाक्रान्तचित्तः ।
यात्रामामाग्रसंस्थत्रकृतिकृतबनो राजहंसप्रचारो
धातेशः सप्रजानां प्रसरति सततं दाञ्छितार्थं वितन्वन् ।। ६५ ।।
सौजन्येन मुखं ननाम मनसः सत्तापसत्ता क्वचि-
त्कीर्तिः कौतुकिनी विलोकयति सद्वस्तु स्वयं विश्वतः ।
सर्वस्याशयवाससाहसरसश्चेदस्ति तत्सेव्यता
जिह्वे तद्वद कोमलं परगुणं कल्याणि मैत्रास्पदम् ॥ ६६ ॥
भेदो वा पाण्डुता वा सहजपरिणती भूषणे स्वात्फलानां
पङ्को वा दारणं या भवति च सुभगं शालिकेदारभूमेः ।
पातो वा दूरतो वा दरणमनुतटं निम्नगानां विलोक्य
दोषो जायेत वेषः क्वचिदपि विषये वस्तुजातिस्वभावात् ॥ ६७ ।।
यात्रामात्रप्रकारे प्रसरति विषयव्यापिनीनामशङ्का
वायोरेकः पुरस्तान्नरपतिकुलजैः शिक्षणीयो गणोऽसौ ।
स्वार्थभ्रंशानपेक्षापरहितनिरतिः श्रान्तसंवाहनं य-
द्विश्वं तेनोपदिष्टा जंगति तु मरुता कार्यमिष्टं परस्याः ॥ ६८ ॥
नीचत्वे निम्नगाः स्युर्जगदुधकृतयेचौषधिः काननत्वे
शैलत्वं राजदुर्ग लवणसमुदयः स्वादसीमोवरत्वे
शालेयं स्वात्समत्वे स्थलतरमवने राजधानी मनोज्ञा
तत्किं सर्वसहायाः परहितनिरतं यन्न जातं विशेषात् ॥ ६९ ।।
नीचैरुच्चैः पदव्या घटयति नितरामुच्चमत्यन्तनीचं
ज्ञात्वा भूयः प्रयोगं रचयति नयतो तोषमन्यस्य कुर्वन्
रिक्तं पूर्णं वितन्वन्समुदयतितरां रेचयन्पूर्णमन्तः
कुम्भी यत्रोपजीवी परपरचलनोपायविज्ञो नरेशः ॥ ७० ॥
बध्नात्येकं विचार्य स्वगुणघटनया मालयान्यन्नियुके
एकत्रैवोपविश्य भ्रमयति सकुलं मण्डलं गोचरेण ।
एक कृत्वा प्रधान दृढमधिकतरायामयुक्त मनखी
तस्मिन्नारोप्य शेषं प्रकटयति धनं यत्रजीवींच भूपः ।। ७१।।
नानाकार्योपयुक्तं लघुमपि च गुरुं तुल्यमानं गृहीत्वा
ज्ञातुं वस्तुस्वरूपं. बहुषु परिगतेष्वेकमेकं क्रममाः ।
संबोध्य खस्थचित्तः समुचितविहितत्वार्थलामो विचारा-
दुन्यच्चान्यद्ग्रहीतुं नियमयति धनं भूमिनाथो वणिग्वत् ।। ७२ ॥
भिन्नं संदधदावरेण सहसा भिन्दन्परं संहतं
वृद्धं साम्यमुपानयंश्च बहुना हीनं गुणैर्वर्धयन् ।
योगे कस्य च नोपपाद्य दृढतां रक्षन्दशामग्रतो
गाढं पीडयति प्रधानमसकृत्कश्चित्कुविन्दो यथा ॥ ७३ ॥
स्वातन्त्र्यादिव योषितो नयपथाभावादिव श्रीभरा
निःस्निहादिव बान्धवाः परगुणद्वेषादिव प्रीतयः ।
कार्पण्यादिव सेवका बहुमृषालापादिव प्रत्यया
गर्वादन्यरता भवन्ति सहसा लोकाः स्वयं भूपतेः ।। ७४ ॥
मर्यादा स्थितये करो नरपतेर्नार्थक्रियासंपदे
शश्वद्भूरि जयश्रिये रणकथा नैवान्यविच्छित्तये
पुण्यायैव धनार्जनं बहु मतं नो भोगसंपत्तये
शीलायैव नवस्थितिर्न परतो विश्वाससंवित्तये ।। ७५ ॥
रविरिव विजिगीषुमण्डलं रक्तमुच्चै--
र्दधदुदयति पूर्वं शीलयन्दक्षिणाशाम् ।
तिरयति परतेजःसंहति कर्मसाक्षी
घटयति किल चक्र भिन्नमन्यप्रयोगात् ।। ७६ ॥
रजो भवति सुन्दरं तनुषु लग्नमेकान्ततः
शिशोः समरभूमिजं वियति नीतमुच्चैः पदम् ।
पतत्पुनरनाकुलं तरुणवीरकूर्चस्थितं
स्वलास्यपरिपूरकं सदसि कीर्तितं सर्वतः ।। ७७ ।।
आकाशस्य विशालताथ महसामेकास्पदत्वं तमः-
प्राप्तौ ब्रीडितचेष्टितं श्रुतिपयस्यारम्भहेतुप्रथा ।
सर्वाशेकनिवन्धनत्वमखिलज्येष्ठत्वनीरोगते
दीर्घायुष्वमनाकुलत्वमसकृत्संचिन्तनीय सता ॥ ७८ ॥
सर्वस्यान्तश्चरति सततं रञ्जयत्येव विश्वं
स्वादस्य स्फुरति शुचिता मित्रजीवायमाना ।
उच्चस्थायी प्रथितकुलता रम्यरम्यखभाचो
वायुः सेव्यो द्विगुणचरितो भूतवर्गे द्वितीयः ॥ ७९ ॥
यच्चक्षुः पुरुषोतमस्य विविधालोकैकहेतोः परं
रूपस्यास्पदमेकमेव मरुतामाहारहेतूदयम् ।
तेजः सिद्धमनेकधास्थितमधिक्षेप्तुं न शक्यं परैः
शक्तिः काचन कौतुकाय सुधियां यस्यातिभूमीयते ॥ ८० ।।
दोषारम्भककौतुकेन शशिनो जातं महल्लाञ्छनं
तच्चेन्मण्डलमण्डितेति विमले व्यक्तं पुरो दृश्यते।
तस्मादुज्वलचारुतारचरितेनैकान्ततो मुच्यतां
दोषाशङ्कि चरित्रमुज्वलतरं नूनं यशश्चिन्वता ।। ८१ ॥
हासे वाचि निरीक्षणेऽपि सरसे लीलायिते वा मनो
मा धेहि प्रसभं निराकुरुतरां यान्ते कदाचिद्यदि ।
भूमिः कैतवकर्मणोः धनमनु प्रेमोपपत्तिः स्थिरा
मत्तत्वैकजनिर्विना मदिरया वेश्या न वश्या नृणाम् ।। ८२ ।।
वित्तं वीक्ष्यैव हासो बहुविधविनयो वञ्चनायोपयुक्तो
मोहस्यैवोपपत्त्यै दृढमृदुलभुजाश्लेषशिक्षोपदेशः ।
शीलभ्रंशाय पुंसां रतविधिषु गलद्रीडितं कैतवेन
प्रायो मूर्च्छास्मरार्तौ मनसि च कठिने मूर्च्छनायेतरस्य ॥८३॥
छन्ने ये कामयन्ते मलकुलजनुषः पापधीदत्तचित्ता-
चौयापायाप्तवित्ता अपि जडमतयोऽहंकृताः पण्डकाश्च
सेव्याः सख्यो हि यासां किल धनविरहे वारणीया जनन्या
धर्मो यासां निजोऽयं कथमिह रमते वंशजः पुण्यजन्मा1८४॥
द्यूते वेश्यासु मद्ये नयत यदि सुखं बाञ्छसि भ्रातरेकं
वित्ताधीनस्त्रिवर्गो भवति न तदिहाधीनचित्ते कदाचित्
चौर्यस्यैकास्पदं तत्त्रितयमपि मृषावादशब्दाभिधानं
बन्धुद्रोहैकसीमा विविधनयकथाद्वेषिणी पद्धतिः सा ।। ८५ ॥
यागे सौरभनिर्भरः परपुरप्रोषे वला भूभुजा-
माकशेति ततः परं च मरुता धूमः श्रिया भुज्यते ।
माने प्रेयसि संमुखे सुवदनानेबाम्बु धत्ते श्रियं
किं वा बाष्पविनिर्गमोऽतिमधुरः स्यादृन्निजामध्वरे(४)॥ ८६ ।।
चन्द्रः पूर्णकला फणी कृतफणः शाखी असूनाञ्चितः
शूरः संगरसंमुखोऽध्वरमुखे विप्रः पुरः पूजितः ।
शुश्रूषाकृतगौरवोऽपि कथको बाजी तु पर्याणितो
निद्राणो गजनायको बहुरसः प्रेक्षावतां जायते ।। ८७ ॥
यदि सदसि पुरस्ताद्वक्ति वाचस्पतिः किं
बहुबुधकविमध्ये वर्तमानस्तदेतत् ।
स्फुटतरमनुकूलं वान (वित्रं तु वृद्ध-
श्रवसि कृतकथाया जायते तत्वभावात् ।। ८८ ॥
विश्वस्ते खोपकारिभावितथवचने शुद्धबुद्धिप्रकारे
शूरे धर्मप्रमाणे तपसि छत्तमत्तौ वेदविद्याप्रमाणे
सद्यः कामोपपत्तौ परयुवतिकथा पापवृद्ध्यैव भीते
मास्तां पापं कदाचित्परहितनिरतं भक्तिनम्रे खभावात् ।। ८९ ॥
दूरं कृत्वापमानं प्रभुगुणगणनायेशलो भानमग्रे
तिष्ठन्तं संविभाव्य प्रकटयति निजं साधयत्कार्यमेकः !
खार्थग्रंशेन किंचित्फलमधिकमदो मानिनो मानपोषे
काले मानोऽपि कार्यः सपदि परिसवं चिन्त्यमाने परेण ॥९०॥
लक्ष्मीं नाभेयनामाजयमजितमुनिः सद्भवं संभवोऽसा-
वानन्दं सोऽभिनन्दो मतिमपि सुमतिः सद्मपद्मप्रभुः सत् ।
पापापायं सुपार्श्वो वितरतु सततं धामचन्द्रप्रभृश्च
प्रत्यूहस्तान्तरायं सुविधिजिनपतिः शीतलः शान्तभावम् ।।९१।।
श्रेयान्निःश्रेयसानां विधिमथ नितरां वासुपूज्यश्च पूजां
वैमल्यं चेतसोऽन्तर्मुनिरपि विमलोऽनन्तनायो यशोऽपि ।
धर्मो धर्मोत्तमो वा धनमधिधनदं शान्तिनाथः सुसार्थे
काव्यं श्रीकुन्थुनायो रिपुमथनमरो मल्लिनाथः कथास्ताः॥९२॥
सुव्रतो व्रतसंपत्तिं नमिलेमीनवाभये ।
पार्श्वमायः सुपार्श्वत्वं महावीरो बली चलम् ॥ ९३ ॥
चिन्तामणिः संप्रति भक्तिभाजां तपस्यया त्रासितदेवमाथः ।
दयोदयः प्रीणितसर्वलोकः सिद्धो गरीयाञ्जिनभद्रसूरिः ॥ ९४ ॥
जगति विदितनामा धर्मकर्माधिकारी
कुलनलिनदिनेशो मन्त्रविज्झुज्झणाख्यः ।
घनसमय विरामें सब्घकान्तिः शशाङ्क-
स्तुलयति अदि कीर्तिं यस्य नश्यकलङ्कः ।। ९५ ॥
अमुष्य तनया जाता सौभानविनयाश्रयाः ।
षडमी लोकपालाः किं यमराक्षसवर्जिताः ॥ ९६ ॥
श्रीचाहडस्तदनु वाहडसंघपालो ।
धीरस्तृतीय इह देहडमामधेयः ।।
प्रमाकरस्तदर्नु पञ्चम आल्हनामा
षष्ठः समस्तगुणराशिरभूच पाहू ॥ ९७ ।।
दुर्गे मण्डप्नामधेयमखिलक्ष्मामण्डलीमण्डनं
दृप्यगुर्जरपातिसाहिमसामस्ताचलाप्राञ्चलम् ।
तृष्णाव्याकुलकुम्भसंभवमुनिस्वाचान्तरिक्तार्णव-
स्फारापारगभीरसीरिपरिखाप्रेवालसन्मेखलम् ॥ ९८
गोरीवंशैकरने ययननरपती श्रीमदालमसाहि-
माद्यद्दन्तावलौवक्षतरिपुनगरद्वारदीर्घोऽर्गलागे ।
नीत्या तृष्यञ्जनान्तः स्थिरतरचरिते शासतीद्धप्रतापे
संतप्तारातियोपिद्विनयभरगलद्भरिसंग्रामथासे ॥ ११ ॥
तन्मन्त्री देहडः सन्दिनमणिविरुदोऽशेषतीर्थकराणां
चारित्रश्रोतृवृत्तिः खरतरमुनिती लब्धतत्त्वोपदेशः ।
गङ्गादेवी च साध्वी सुचरितकुलजासूत यं सूनुरलं
धीरः सोऽयं धनेशो यतत बहुतमः कौतुकेन त्रिशत्याम।। १०० ॥
शृङ्गारनीतिवैराग्यशतकत्रयमञ्जसा ।
धनदाभिधया यातु प्रसिद्धिं विद्भिराहतम् ॥ १०१ ।।
वर्षे व्योमात्रवेदक्षिति(१४९०)परिकलिते विक्रमाम्भोजबन्धो-
र्वैशाखे मासि वारे त्रिदशपतिगुरोः शुक्लपक्षेऽहितिथ्याम् ।
जीवाब्दे सौम्यनाम्नि प्रगुणजनगणे मण्डपे दुर्गकाण्डे
ग्रन्थस्यास्य प्रतिष्ठामकृत धनपतिर्देहडस्पैकवीरः ॥ १०२ ।।
यावत्कल्पकथाकुतूहलकरी यावच्च जैनागमः
शेषं सादरमादधाति धरणी शीर्षेण यावञ्चिरम् ।
यावत्सन्ति पयोधयोऽपि निखिला मर्यादयोद्यन्मुदो
विद्वत्सु त्रिशती विराजतुतमां तावद्धनेशाज्ञया ॥ १०३ ।।
इति तपःसिद्धतरखरतरानायसोनवंशावतंसश्रीमालकुलतिलकसंघपालनीमद्देहडाः-
त्मजविविधविरुदराजीविराजमानश्रीधनदराजविरचिते. शतकत्रये