वैराग्यशतकम् (धनदविरचितम्)

विकिस्रोतः तः
← नीतिशतकम् (धनदविरचितम्) वैराग्यशतकम्
धनदः
१९१६
शृङ्गारशतकम् (धनदविरचितम्) →

वैराग्यधनदाभिधानं तृतीयं शतकम् ।

 सिद्धौ व्योन्नो द्वितीयस्तदुदितमरुतः संपदो यस्तृतीय-
 स्तेजस्तोऽस्माच्चतुर्थो भवति च पयसः पञ्चमस्तन्निमित्तात् ।
 षष्ठः सर्वेसहाया जलकलितजनेरेकरूपः समन्ता-
 दाभासेनैव नाना जयति लयजनुःकारणं सोऽन्तरात्मा ॥ १ ॥
 श्रीमालः श्रीविशालः खरतरमुनितोऽधीतधर्मोपचारः
 पारावारान्यतीरमचुरदुरयशा दानसंतानबन्धुः ।
 नानाविद्याविनोदस्फुरदमलशमः कामरूपाभिरामो
 जीयाद्धन्यो धनेशः शमशलकमिदं यख नाम्ना विभाति ॥ २॥
 संसारे सारवस्तुप्रथममुपगतं पुण्यमस्य प्रकारा-
 हाने शीलं तपस्या त्रितयमभिहितं साधुसंधैर्विविच्य ।
 स्वर्गस्तस्थापवर्गः सुखयति स च नो कंचन प्राप्तबोधं
 वैराग्यं तस्य हेतुस्तदखिलमधुना कथ्यते मोक्षसियै ॥ ३ ॥
 आलापो वीतरागैर्विषयपरिणतेरेकचित्तेन चिन्ता
 साक्षात्कारो रुजाया जननमरणयोरागमेषु प्रमाधीः ।

 सत्वोद्रेकः खभावादिदमखिलमही नश्वरं चेति बोधो
 हेतुर्वैराम्यजन्मन्यपि धनतनवस्त्रीवियोगः कदाचित् ।। ४ ।।
 काष्ठान्ताबद्धरश्मी शशिदिवसकरावेव निर्माय पात्रे
 पुण्यं पापं विविक्तस्तुलयितुमसकृद्धाञ्छतीवेह कोऽपि ।
 पुण्यस्य ज्योतिरेतद्विलसति सवितुर्मण्डले दीप्यमानं
 चन्द्रस्यान्तर्यदेतन्मलिनमिव परं दृश्यते पायमेतत् ।। ५ ।।
 शान्तिः काचित्कुमारी दमयमकुलजा शीवीरैकबन्धुः
 पित्रा बोधेन दत्ता सममुपनिषदा मानिनेऽस्मै वराय ।
 वीर संतोषमेकं विविधगुरुकुलाधीतनीतिं प्रसूता
 ग्रावाणो यस्य याताः कनकपरिणतिंं शालयः शाकपाकाः ॥ ६ ॥
 शोकाग्निज्वाललीढे बहुविधविषयनेहपूरे गभीरे
 संसारेऽसिन्कटाहे जनवनशकुनीन्मोहजालेन बद्धान् ।
 भर्जं भर्जं यदनन्विकटयति मुखं चन्द्रसूर्यच्छलान्त-
 र्दृश्येते कालदंष्ट्रे सदुडुपरिकरं कीकसं तत्प्रतीमः ॥ ७
 रज्यद्विम्वाधरश्री पिशितसवलितं रोमराजीवरसूत्रं
 भ्रुपल्लिक्षेपकालायसंवडिशमिदं तत्कटाक्षोपफर्णि ।
 अस्यां संसारनद्यां वितरति कुतुको निर्दयोऽयं कृतान्त-
 स्तद्ग्रासालासधारां परिहरत परं म्रातरो लोकमीनाः ॥ ८॥
 नापेक्षा भूषणानां भवतु न नितरां चन्दनेनाङ्गराग-
 स्तस्यारम्भोऽपि दम्भो वसति तरुणयोः प्रेम चेदेकमन्तः ।
 तच्चित्तं विरक्तं यदि वसतिरियं कन्दरा बन्धुवाचः
 प्राणायामः सुखेन स्थितिरपि विदितं योगिनामासनं तत् ॥ ९ ॥
 कस्मै संचारदीपाः पथि पथि विहिताः खर्गसोपानमार्गे
 रम्भे कुम्भं निधाय खशिरसि पुरतः कस्य हृष्टा प्रयासि
 तीर्थे तीर्थे तपस्या रविचिरमधुना सोऽधुनेहाभ्युपेत-
 स्तावत्क्लेशेन तत्किं कृतमिह नयतो जायते खप्रकाशः ॥ १० ॥

 पिनोरासीच्छिशुत्वे गतवति विगतं शैशवे तत्पुरस्ता-
 जातं नारीषु पश्चात्तरुणिमनि गते मूलतस्तद्विनष्टम् ।
 पुने प्रेम स्थविष्टं यदभवदमलं तस्य नाशो न भावी
 भावी चेचिन्तयामः पदमविक्रमदानन्दकन्दं तदन्तः ।। ११ ।।
 युण्येऽरण्ये कदाचित्तरुवरनिविडच्छायया जातशातः
 आसः किंचित्समाधि परिचितपरमज्योतिरानन्दसान्द्रः ।
 कर्मच्छेदापराधप्रकुफ्तिशमनकुटिभंसहासा-
 नेथ्येऽहं वासराणां निमिषमिव शतं सजनैरीक्षमाणः ॥ १२ ॥
 तल्पेऽनल्पे शयालोरचलजयलवप्रालनिद्रासमाधे-
 हेमादरेकदेशे सहजपरिणतं विनतः पत्रमझें ।
 शोभां दद्युः कदा मे विषमविषधराः पीडनादुच्छ्सन्तः
 सद्यः क्षीरोदपूरे फणिपतिशयने सुप्तपीताम्बरस्य ॥ १३ ॥
 सिध्यत्पर्यतबन्धस्थिरसकलजनो विनी में पुरस्ता-
 द्रोरके शयालोरपधनबहलामोदमन्दाविलास्या ।
 गन्धादुद्वीज्यमाना सरसरसनया सत्रणी लेलिहाना
 रह संहारधीरा मृगपतिरमणी पालिता खा शुनीच ॥ १४ ॥
 भृङ्गारे भीतिमारावधिकमिति फलं पीतपत्रे तदेव
 सौधे हिंसाप्रयजौ क्षितिधरविवरे नितिः सा समैव ।
 खेदश्वासौं नटीनां धृतिरिह नवने के किनाट्ये लथैव
 तस्मादायासभूयः सुखमिलविपिने योगिनां हेडयैव ॥ १५ ॥
 भोगं प्रायः प्रयलाद्धटयति पुरुषो न खवं सिद्भिरसि-
 नासामन्याभूणां पवनलवसुखं तावदने वदामः ।
 येऽमी शश्वत्प्रवृत्त जगदुपकृतये ये पशोरप्राचार्य
 हिंसा तादृक्पशूनां सरभसरमणीचाहपीला पदार्थम् ।। १६ ॥
 दसोराराददृश्यहन्नयादारमिखो नियतः पञ्चवामा
 लखन्तः केऽपि सन्तः संपादि तरुणतां पुस्पारे विशन्तः ।

 वक्षोजद्वन्द्वतुम्बीयुगमुरसि निजे गाढमाबध्य नूनं
 मग्नाः संसारनद्यां न पुनरुद्वितये जातु दुम्बीभरेण ॥ १७ ॥
 का त्वं माया किमेतत्पृथगसि पुरुषादात्मनश्छद्मबुद्धे
 रात्मोदास्ते यथासावहमपि च तथा पर्यये पूरुषस्य ।
 निर्णीता वीतरागैः परिषदि कथया सर्वथैवासतौतिः
 किं सन्नात्मा तथात्वं किमिति न समता मादृशामीधरेण ॥ १८ ॥
 आः किं नाद्यापि मुक्तः प्रतिजनि जगतामायुरल्यं गुरुभ्यः
 श्रूयन्तेऽमी उपाया भवति विधिवशात्तावदायुः समाप्तम् ।
 सायो किं तेन कायः किमु न धमनयः किं न नासासमीरः
 संचारी तासु न स्युः किमु धरणिधराः कन्दराः किं न तेषु ॥१९॥
 नासाधासावरोधादनिमिषनबनारम्भतः कम्पहाने-
 र्मुग्धा काचिद्धनान्ते शदरसहवरी देवतैवेति मत्वा ।
 कण्ठे धत्ते मधूकस्रजमतिघवलामादरेणानमन्ती
 राजिष्येऽहं ययायं हठकृतचरणः किंतु मुक्त्या रमण्या ॥ २० ॥
 शश्वत्संघट्टनष्टो(?)परितुष शुचिभिस्तारकारक्तिकाभिः
 कालः कूठः प्रमाता तुलयति जगतामायुरूनाभिनाभिः ।
 तस्मादेवातिहीनं भवति जनिजुषामात्मना कर्मदोषा-
 द्वक्तुं जानननीशः प्रभुरयमधिकं सह्यते सर्वमस्य ॥ २१ ॥
 नाडी काचित्सुषुम्ना प्रसरति परितो लम्बिका बद्धमूला
 ब्रह्मस्थानेन्दुबिन्दुप्रसरणपदवी सर्पवक्राष्टवका ।
 तस्या बक्रे कथंचिद्दिशति यदि महत्तृप्तियोगो विनाशी
 तुष्टा शश्वद्यतोऽमी हिमकिरणसुधां नाद्रियन्ते मुनीन्द्राः ॥ २२ ॥
 ऊर्ध्वाधोरोधसिद्धश्वसनगतिवशाद्भिद्यमाना परान्त
 द्वारानीता मृतांशप्रशमितमरणत्रासनिःशङ्कचारः ।
 जीवस्तस्माचिरायुर्भवति किल जनः पिण्डमेवेहमानः
 सिद्धीस्तास्ता दयानो गगनचरजना दृश्यतादिखरूपाः ॥ २३ ।।

 धातः के तेऽपराधाः कथय मतिमतामिन्द्रियाणाममीषां
 संसृज्यन्ते मुनीनामलमिह वपुधामूनि येषां बलेन ।
 बद्भेव श्वाससिद्धे मनसि परिणते पञ्च नो वञ्चयित्वा
 सिद्धे साध्ये कथंचित्सपदि परतरं ब्रह्म शुद्ध प्रयान्ति ॥ २४ ॥
 चत्वारो योगभेदा द्विविधमिह मनो वायवः पञ्च पञ्च
 द्विष्वः(१)साध्ये समाधिस्त्रिविधमुपगतं ध्यानमेकः परात्मा ।
 सिद्धावस्थाश्चतस्रोऽप्यवयवघटनाकीर्तितेहाष्टसंख्या
 योगारम्भेऽयमुक्तः परमपरिचयः संतताभ्याससाध्यः ॥ २५ ॥
 कामाक्षामेतरेषु ज्वलनकचालिते मानिता नक्रचक्रे
 कान्ता कान्तेक्षणश्रीसरभसलहरीमनशीलोरुशैले ।
 संसारक्षारसिन्धौ प्रविशति पुरुषः किं न रनद्वयं चे-
 द्गोष्ठी विद्वज्जनानां परिषदि नृपते तसत्वोपकारः ॥ २६ ॥
 संसारस्यास्य मोके विधिरतिसुकरो वर्णितोऽयं विचारा-
 न्नात्रापेक्ष्याः सहाया धनमपि न हितं वाससां नापि चिन्ता ।
 नाहारारम्भदम्मो बसतिरपि तथा नो न शय्योपतापः
 पाल्याः पुत्रा न दारा मणिकनकमयैर्भूषणैर्चिनीयाः ॥ २७ ॥
 केयें बाला बराकी तरलयति दृशौ मन्दसानन्दहेतू
 संशेते चेति चित्ते भवति न पुरुषः कोऽयमन्यः प्रकारः ।
 आनन्दानाममैषां सततमलवतो पीतरास्यानिकृष्टा-
 स्तरिक कुर्मोऽनभिज्ञाः शिथिलयति मद्रं नाधुनापीद्दगेतत् ।। २८ ॥
 न त्रस्ता भूपतिभ्यो मृगपतिकुहरे निर्विशन्तोऽपि धीरा
 लीला येषां कदाचिद्विषधरवदने खाङ्गुलिक्षेपणेन ।
 क्षुभ्यत्पञ्चास्यविभ्रद्गनकुलकलहे ये च मध्ये भवन्ति
 स्फीतास्ते शान्तभायाः शिशच इन जिता लीलया वाणिनीभिः ॥ २९ ॥
 दृष्टं यद्दष्टमुच्चैरुदयति सुतरां सङ्गलाभावहेतु-
 र्दृष्ट्ये()यत्रापवित्रं युवतिरपि भवेद्धर्मकर्मैकबन्धुः ।

 तच्छेषे शुक्रयोगात्सुरुष इति परं तस्य चेत्पापवाञ्छा
 तत्पुण्यं कीटजन्म प्रलयसमुदयौं यत्र सद्यः खभावात् ॥ ३०
 मातर्माये श्रुतासीरुपनिषदि परब्रह्मणस्त्वं द्वितीया
 लीलायन्ते प्रपञ्चप्रकृतिपुरुषयोः कापि शक्तिस्त्वमेव
 भूयो भूयोऽनुभूतं यदि तव चरितं त्वद्वधे पुण्यमेव
 प्रारम्भः कुत्र पुंसः स्वतः इव दुरितप्रागभावोऽपि सिद्धः ॥ ३१ ॥
 लिम्पन्तश्चन्दनेन प्रतितनुसाविषैः कण्टकैर्वा तुदन्तः
 सानन्दं वा स्तुवन्तः प्रतिपदकथया दोषमुद्भावयन्तः ।
 मासे पासे नयन्तो मधुरमथ विषं निक्षिपन्तः कदा मे
 ते ते चैते समानाः सहजपरिणतज्ञानसिद्धिं गतास्याः ॥ ३२॥
 द्वित्रैः सद्यः प्रसूतैः प्रथममुपचितं पञ्चषैर्जातदन्तः
 सप्ताष्टैर्वृत्तचूडैः पुनरधिकदशैः शैशवातीत पुंभिः
 विंशत्या त्रिंशता वा परिणतवयसां सैकपञ्चाशतैवं
 द्यूते कालश्च कालीपणमुचितनुतः प्राणिभिर्नित्यमेव ॥ ३३ ॥
 बद्धा रुद्धा विरुद्धा जनशशशिशवः खण्डिताः पुंवराहा
 दर्पान्धाः स्कन्धबन्धे नरपतिमहिषा लक्षिता वीक्षणेन ।
 विद्वन्नागानुरागात्पथि पथि निहता ज्ञानसिद्धोऽपि सिंहः
 कालं व्याधेन नीतः स्ववशमिति जगत्कानने कर्मदावे ॥ ३४ ॥
 यातायातेन खिन्नो निशि निशि सुतरां कालचौरो निरासो
 जीवं रत्नं समन्तान्मुमुत्रिषुरधिकं जागरूकस्य जन्तोः
 द्वारे द्वारे कपाटं दृढमूलघुतरं कर्म दत्वोपदिष्टं
 ध्यानं कृत्वा प्रदीपं श्वसनपरिभवं सर्वतः संनिरुध्य ॥ ३५ ॥
 भित्त्वा भितिं समाधिं विषयसुखकुशी कौशलेनैव सद्ये
 यामिन्यां जागरूके मनसि शशिमुखीप्रेममयेन मत्ते ।
 बन्धुत्यागापराधान्महिमान गलिते पञ्चसु न्यकृतेषु
 मुष्णात्येव प्रमादाच्छुसितघनमिदं प्राणिनां कालचोरः ॥ ३६ ॥

 शीलं शीलं दियक्षोः कलिदवदहनाद्विभ्यतः पुण्यमेरो-
 रन्तः सन्तो विशन्ति ध्रुवमिह जगती जन्मधूमोपतापः ।
 तत्किं नाराधयन्ति त्रिपुरिएपदद्वन्द्वमेघं(?) य एव
 ज्ञानापासारसेकाच्छमयति सपदि ज्वालजालं क्षणेन ।। ३७ ॥
 नाहं कस्यापि कश्चिन्न च मम ममता नाशमूलं किलैत-
 न्नित्यं चित्ते प्रियध्वं यदि जगदखिलं नाम मिथ्येति बुद्धिः ।
 एतस्याहे ममैतद्यदि मनसि तदा जन्मकर्माद्रियध्वं
 मन्यध्वं गर्भचर्मावृतिमभयपदं किंतु पुण्यं कुरुध्वम् ॥ ३८ ॥
 मूकीभावो गरीयान्यदि गिरि भविता दोषवादः परेषां
 किं वा स्वेषां गुणानामनुकथनमदो भूयसा गौरवेण ।
 दृष्टे वा साधुवादस्खलनमधिगुणे खापकर्षे तथोक्ते
 मित्रा मित्रोपकारा प्रकृतिविमुखता भूपतीनां सभासु ॥ ३९ ॥
 धीरे का कोकिलानां प्रसवममतया या न लीडा कदाचि-
 द्धुर्तानामेव मोहः शिशुकविधिवशाजायते वायसानाम् ।
 एवं ज्ञात्वाभिमान मनसि विजहतां जायते बुद्धिरेका
 संसारक्षारवारांनिधिरपि मधुरो मुक्तिभाजा जनानाम् ॥ ४० ॥
 कस्येदं सद्म मृत्योः किमिति कलकलो भीषणोऽसौ जनानां
 शास्यन्ते पापवृश्या खलु धरणितलेनोपपन्नां किमेते ।
 गङ्गानहारिसशास्खलदमलजलाकर्मकारुण्यपूर्णं
 स्वाधीना यत्र जिह्वा गिरिपतितनया यानि नामानि यत्र ॥ ४१ ॥
 यज्ञाजातात्समरताच्छतमखपदवी याज्ञिकादन्यतोऽमी
 सिद्धे साध्ये कथंचित्तपसि तु रविता चन्द्रता चेत्तमोभिः ।
 नाशका यत्र करसादपि यदि मददी कापि दूरेऽपि दृष्टा
 तस्यामस्यां रमन्ते ह्यदि कृतपरमज्ञानतत्त्वा तथा मुनीन्दाः ॥ ४२ ॥
 मा जायेरन्कदाचिजगति कृतक्यिो जातुचिजन्म दैवा-
 द्यस्माद्विश्वोपकारो बितरतु भगवान्कर्म तत्सर्वसाक्षी।

 काभावः कथंचिस्फुरतुः समुदितो यत्र जातेम भूयो
 जन्मारम्भः कदाचित्परिचितपरमब्रह्मणोऽद्वैतबुद्धेः ।। ४३ ॥
 प्रीतिबन्धौ समृद्धे गतवति विपदं दुःखमेकान्ततो य-
 त्तोषस्ते तावता चेत्तमल भक्ता कानने सोऽनुभाव्यः ।
 कार्यश्चित्तप्रमोदो मधुसमयवत्कोरकश्रीसमृद्धे
 माद्यन्मातङ्गभग्ने विटपिनि नितरां दुर्विनेयो विषादः ॥ १४
 अन्तापत्संपदेषा परिणतिविरसाः कान्तयामी विलासा
 आदावन्ते वियोगे परिचयमधुरे संगमे सज्जनानाम् ।
 विद्यारत्ने प्रपन्नः स्वमतगुरुकथापक्षपातेऽभिमानो
 वस्त्वेक तत्किमास्ते परिचयसमये यस्य सर्वे समाः स्युः ॥ ४५ ॥
 यद्यर्थ त्यागहेतौ न भवति विभवस्तस्य कुत्रोपयोगः
 षड्वर्गादन्यतो वा विदधति च पदं कुन मासादयोऽपि ।
 त्यागे तात्पर्यसस्य स्थितिरिति यदि तत्कोऽपि शान्तप्रकार-
 स्तत्सर्वोपाधिशून्यैः शमविहगतरौ तत्समाधौ वसामः ॥ ४६॥
 पुण्यारम्भेण सद्यःसुरपतिनगरस्यैव पन्थाः प्रकाशः
 पापेनान्यः कृतान्तः प्रतिवसति मुखो ध्वान्तसंक्रान्तिधोरः ।
 योऽयं पन्थास्तृतीयः कतिपयपुरुषप्रस्थितिक्षीणभावो
 यात्रा तेन प्रयत्नादुभयपरिभवेनैव साध्या सुधीभिः ॥ ४७ ॥
 किं केशस्तेऽपराद्धं वसतिरपि कथं द्वेषिणी मित्र जाता
 किं पुत्रा वैरभाजा कुलजयुवतिभिर्नाशितं किं च ताभिः ।
 यत्ते तां तामक्स्त्रां चिरमिति गमिताः कामने काधिकाधी-
 र्यावच्चितं न रक्तं परपुरुषपदाद्वैतरामेण तेन ॥ ४८ ।।
 भूयो भूयस्तनुध्वं विधिमधिकधनं यज्ञवृत्तेः समन्ता-
 त्सेवध्वं वा वनान्तं परिहृतविषमा बन्धुवर्गं विहाय ।
 तीर्थे तीर्थेऽधिपर्व प्रयतत्त तपसो योण्य धर्मे यतध्वं
 यावच्चेतो न शान्तं सुखलवकणिका दुर्लभा तावदेव ॥ १९ ॥

 गाढे गर्भान्धकारे चिरमुषितमनुच्छ्वासमेकान्तदुःखे
 तत्पाके भ्रश्यताधः कति कति शिशुतायातना नानुभूताः ।
 अद्य त्वं पापचित्त श्रमयसि यदि वा यौवने चेतसं मां
 तत्तत्कर्मापराधादुपचितमसकृजन्मदुःखं सहश्च ।। ५० ।।
 सङ्गे गङ्गाशरय्वोर्नियमितमस्तोर्मन्त्रमावर्तयन्तः
 कुर्वन्तो वा बनान्ते समिधमनुविधं बोधयन्तो हुताशम् ।
 अन्यस्यन्तस्तपस्यां पुरमथनपुरीसंनिधौ ध्यानमन्तः
 सन्तो वा साधयन्तः परमपरिचयं वासरान्तं नयन्ति ॥५१॥
 श्वासेनैकेन केचित्परिणतपवना मासमेकेऽप्यथैके
 वर्षार्धं वर्षमन्ये क्षणमिव यमिनोऽभ्यासलेशान्नयन्तिः ।
 तसादभ्यासवश्यः पवनजयलयस्तेन चेतःस्थिरत्वं
 तस्योपायेऽनपायो गुरुपदपदवीसेवनं कारणं स्यात् ॥ ५२ ॥
 प्राणायामादिकर्मक्षपितदिननिशं निद्रया दूरमुक्तं
 शब्दादिभ्योऽवधूतश्रवसुखकरणनामसिद्धावबोधम् ।
 वेदान्ताद्वैतवादश्रवणमननतो लीनमिथ्यावभासं
 पुंरत्नं यत्नसाध्या खयमिह वृणुते निर्मलाद्वैतसिद्धिः ।। ५३ ॥
 कार्पण्योत्पत्तिभूमिर्गुरुसुतसुहृदां वञ्चिकापण्ययोषि-
 द्वाग्देवी दैन्यवाचां पररसमधुरवादलोलाप्रजिह्वा ।
 चौर्यातद्रुबीजं नय पथि कतमो विम्रमाम्बुप्रपातः
 शीलापस्माररोगे विधिरकरुण का सिद्धये केह तृष्णा ॥ ५४ ।।
 रम्भाहासोपहासस्त्रिदशपतिशचीसख्यसौख्यं च मुख्यं
 पुण्यच्छेदे प्रमाणं तपति च रविता चन्द्रता जाड्यभूमिः ।
 ताभ्यां येऽन्यक्रियेस्न्मगनचरगणाः सन्तु ते चेति गोष्ठी
 शिष्टानां यत्र तस्यामुपचितमतयः कर्मणा किं विदध्मः ॥ ५५ ॥
 शीतांशूष्णीषमध्ये हरिणमिषमिलल्लीलवासः शिरस्त्रे
 जातः कालो जरावांश्चिरसमयपुमान्विश्वकर्मैकसाक्षी ।

 आकाशश्मश्रुमध्ये पलितकवलितं भाखता साधकेन
 छिन्नं सजायमानं प्रसरति परितो रोमतारागणश्रीः ॥ ५६ ॥
 अहि श्रान्तः समन्ताजनिमृतिगणितैर्जागरिष्यन्निशायां
 प्रातः प्रारभ्यमौनव्रतगमितदिनान्भिक्षयन्बूकबन्धून् ।
 सायं शेते कृतान्तो दिनकरशशभृल्लोचने मौलयित्वा
 मौनव्याजेन विप्रा मुषितविधिममुं, निन्दयन्ति स्वयं तम् || ५७ ॥
 सूक्ष्मं सूक्ष्मं विचिन्वन्नुचितमनुचित कर्म जन्तोरनिद्रो
 मन्ये वृद्धः कृतान्तो घनतिमिररुजाक्रान्तनेत्रप्रकाशः ।
 एकं चक्षुर्निमील्याहनि तु शशधरं पश्यति प्रेतजातं
 रात्रावर्कं कथंचित्कलयति सकलं विश्ववस्तुप्रमोदात् ।। ५८ ॥
 भूयो भूयोऽपि पश्यन्भ्रुकुटिविषमितप्रेक्षणद्वन्द्वमारा-
 त्सावज्ञं यान्तमग्रे समुदितविमलब्रह्मतत्वावबोधम् ।
 तेजोभूम्ना यदस्या स्फुटदिदमधुना दृश्यतेऽन्तः सकाचं
 चन्द्रं प्रातर्द्वितीयं सदरुणमसकृज्जायते सूर्यनामा ॥ ५९ ॥
 गर्वः कस्माद्धतास्ते रणभुवि रिपवः साधु के ते मनुष्या
 विग्धिक्कर्मैव तेषां क्षणविजयसुखं कर्म तादृक्तवापि ।
 साधो कर्मैव किं तन्नियतिरिति यया सर्वमेतन्निबद्धं
 तस्य च्छेदे किमस्त्रं परिचितिरमलबाणो मुक्तिहेतोः ॥ ६० ॥
 कान्ता काचित्कुलीना स्मितसरसमुखी भीतिहेतुः पिशाची
 पुत्रस्नेहोपगूढं दवदहनधिया दूरतो मोचनीयम् ।
 बन्धुर्यनापदन्धुः सुहृदपि नितरां धातुको दस्युवर्गः,
 प्राप्तास्तत्रापवर्गाध्वनि पुनरधुना जन्मविच्छित्तिहेतौ ॥ ११ ॥
 पञ्चापीमे मदीयाः प्रतिजनि सहजाः पञ्चभूतानि तेभ्यो
 दीयन्ते तद्विभज्य प्रतिभुवि मनसि प्रापितोऽसौ सुधांशुः ।
 आत्मन्साक्षी त्वमेकः पुनरपि यदि मामाश्रयन्ते कदाचि-
 त्कर्माकर्तुं क्षम्रोऽहं विषयपरिचयो नष्ट एव खभावात् ।। ६२ ।।

 कर्णावाकर्णयेतामुचितमनुचित्तं त्वक्स्पृशेचन्दनादी-
 नीक्षेयातां नितान्तं परतरयुक्त्तेश्चक्षुषी रूपजातन् ।
 मिथ्यावादाद्वदेवा मृदुरसरसने नासिके जिघ्र गन्धा-
 द्वन्दीमोक्षो भवद्धिर्मम कृपणपटोरद्य लब्धः कथंचित् ।। ६३ ।।
 विश्वज्ञानैकहेत्वोः प्रकृतिपुरुषयोः संगमे पञ्च पुत्रा
 एकैकज्ञानभाजः कथमजनिषत प्रायशो बुद्धिमन्तः ।
 सर्वेषां सर्वबोधः कथमपि भविता चेत्तदा विश्वभाजा-
 मुन्मादः कुत्रं माता विधिरपि बधिरो लोकवृत्तं तु शृण्वन् ॥६४ ॥
 आरोहे दुर्गमायास्त्रिदशपतिपुरीदीर्घसोपानपङ्के-
 र्मध्ये धर्म स्वमंशं सपदि विदधतस्ते गुणानां सरामः ।
 सद्यः सारम्भरम्मा सितलबकणिका लोलनेत्राञ्चलश्री-
 रद्धा बन्धुं भवन्तं कशयति तदिमं मार्गमेव त्यजामः । ६५ ।।
 कर्माणि भ्रातरः किं स्वमनसि भलिनाः कारणं() धूयमादौ
 युष्माभिः संस्कृतेऽस्मिन्दपुषि समुदयो ज्ञानबींजाङ्कुरस्य ।
 गोभिः कालेन पुंसां प्रसभमभिहते भूमिभागे शरादौ
 मिष्टः स्पष्टः समन्ताद्भवति हि नितरामिक्षुदण्डप्ररोहः ।। ६६ ।।
 द्वित्रेष्वेवावतारेप्ववहितमनसो मे भवन्तः सहाया
 धर्माः कर्मोपचाराद्भवत नहि मृषा यावदाराधयामः ।
 पादद्वन्द्वं गुरूणां हरचरणदुवैः() चित्तमारोपयाम-
 स्तिष्ठामि वीतरागैरमरपुरधुनीनीरतीरे बसामः ॥ ६७ ॥
 संसारक्षारसिन्धोरधरदलमिलताम्रपर्णीतटान्तः-
 प्रोन्मीलद्वासशुक्तिस्फुरदलघुरुचां दन्तमुक्तामणीनाम् ।
 नास्माकं जातु लोभः कचिदमरधुनी पातुका तञ्जलित(१)
 मे किं मोकं शरीरं सपदि कृतधियो मुक्तिमासादयामः ॥ ६८ ॥
 प्राप्तो बन्धाय हेतुर्निरक्यवविभोः कर्मलेशानुषङ्गो
 दृष्टान्तो व्योम सिद्धं विशति कथामिदं गर्ममन्धान्धकारम् ।
 व्यापारेणापि सिद्धः परगुणरचिते तान्यवन्धानुरोधो
 जीवास्ये चापराधात्प्रकृतिरिह भवेत्कायसर्गे सहायः ॥ ६९ ॥

 वीणावादेऽबलानां वचसि च तनु तं प्रेममादोषवादे
 विश्वेषां रूपजातं परमुपचिनुतां रूपतोऽन्याङ्गनानाम् ।
 मिष्टं यद्यत्र सत्यं विधिषु परिणतं ब्रूत किं वोऽपराधा-
 दष्टानां वोऽपराधाजगति विचरतां नेह पारः कदाचित् ॥ ७० ॥
 दारा जातोपकारा अजनिषत यतः प्रीतिभाराः कुमारा
 चित्तानीतानि यूयं विविधविधिमुखे खोपयोगं चिरेण
 मित्राणि प्रार्थये वः स्वलितमपि कदा मिन्नकार्यान्मनो में
 कर्मच्छेदोद्यमाय क्षितिधरविवरे वासमीहामहेऽद्य ।। ७१ ॥
 अद्धा शुद्धा जरेयं यदनघचरगन्यासमानेण केशाः
 सस्नेहा एव देहे स्फुटमलिनरुचो नाम जाता विशुद्धाः ।
 अस्या एवेन्द्रियाणि ध्रुवमदमनया बोषितानि प्रसज्य
 प्रायो नैवोत्सहन्ते क्षणमपि सहसोपासतेऽम्बामिव खाम् ॥ ७२ ॥
 एकस्मिन्यस्य वासो नयवति चपला निश्चला यत्र नित्यं
 क्षीणेनैकेन सख्या नियमयति रिपून्पञ्चपञ्चापि यश्च ।
 स्थैर्यं येनाद्य नीतो रसयति न रसश्चन्द्रसूर्याध्वनीनो
 ब्रूते काचित्कुमारी भवति स पुरुषो मां वृणीता बलेन ।। ७३ ॥
 चाञ्चल्यं मुञ्च चेतस्त्वमणु ननु महद्भूयसे येन तत्त-
 त्सर्वं कुर्वे न गर्वस्तव झटिति गतेः प्रीतिभागस्मि साधो ।
 आस्ते कश्चित्प्रभुर्नस्तमिह न भगवानाप्तमेकान्ततस्त्वा-
 मात्मानं चेन्न कुर्यात्पुनरपि विषयात्को निवर्तेत मूढः ।।७४ ॥
 मुग्धत्वं शैशवीये प्रतिविशति पुनर्यौवनीथेऽभिलाषा
 ये जाता भोगहेतोः प्रतिवसति ततो नर्तिता वानरीव ।
 तत्रैते वार्धकीये प्रसरति विषयोऽसौ विषप्राय एव
 प्रायोऽवस्थाधिकेयं व्यभिचरति मनोवाञ्छितं यत्र जातु ।। ७५ ॥
 विद्यारम्भो न दम्भो विधिरपि यजुषां नैव दम्भः कदाचि-
 च्छ्वासस्तम्भो न दम्भी व्रतविधिनियमो नापि दम्भस्तपो दा ।

 विज्ञाय ज्ञानदम्भो वितरणमधिकं नापि दम्भो धनानां
 भावेनैकेन हीनं निखिलमिदमहो दम्भमुद्रां वहामः ।। ७६ ॥
 विज्ञा यज्ञेन वित्तव्ययमुषितमहाकोशजातेन पुण्यं
 तीर्थे तीर्थे तपस्याक्षपिलदिननिशं जायते यत्तु किंचित् ।
 कुर्वद्भिर्वोपवासान्त्रतमृतुषु नवं क्लेशतः पालयद्भि-
 र्ध्यानेनैकेन सद्यः फलमधिकतरं जायते योगभाजाम् ॥ ७७ ।।
 नो मौनं नापि दैन्यं न गुणगुणकथा नापि कन्था न पन्था
 न त्यागो बान्धवानामनशनमपि न स्नानमेकान्ततो न ।
 मातर्मातर्वचो न क्षितितलशयनं नापि न(?) क्लीवता वा
 वैरान्यं नास बोयो यमदमकलनामात्रया स्वप्रकाशः ॥ ७८
 साक्षात्कारोऽप्यणूनां प्रसरति पुरतो योगिनां यत्समाधा-
 वन्तर्गामीति चक्षुस्तदिदमिह महो को न वेदप्रसिद्धम्
 पुंसोऽधीनो बिहारः करणपरिकरस्येति सिद्ध न विद्मः
 पापे पत्यौ सहायाः कलुषमतिजुषरतन्न मा निन्द जीव ।। ७९ ॥
 शब्दादानोपयोगं श्रवणमिदमहो तस्य लोकेऽपराधः
 कोऽयं पापप्रवृत्तौ प्रभवति करणं नाम भोगाय पुंसः ।
 सुप्ते मत्ते प्रमत्ते जलरमपतिता बाति नौः कर्णधारे .
 जात्यैवाचेतनायाः खलु कलुषलवः कोऽपि संभावनीयः ।। ८० ॥
 आकाशस्यात्मसिद्धेरपि रविशशिनोः पर्वते या नितान्तं
 सायं प्रातः प्रकाराक्षतिरिह विदुषा कारणं चिन्तनीयम् ।
 जातो वातो यदस्मादृहनसमुदयोऽभूत्ततोयास तस्मा(?)
 त्ताभ्योऽभून्मेदिनीयं सदुरितपुरुषासङ्गिनी कर्म तस्याः ॥ ८१ ॥
 अध्यक्तं नाम किंचित्प्रकृतिरिति महाञ्जायतेऽस्माच तस्मा-
 जातोऽहंकारनामा प्रकृतिमहदहंकारतः पञ्च तत्तत् ।
 तेभ्यः पञ्चेन्द्रियाणि त्रिगुणगुणलवप्राप्ततत्तद्गृहाणि
 प्रायस्तैरेव भुङ्के निजविषयरसं पूरुषः कर्मबद्धः ।। ८२ ॥

 माता वा मातुलो वा प्रभुरषि जनको बान्धवो वा सुहृद्वा
 विद्याभ्यासे सतीर्थ्यरतपसि सहचरा गेहिनी वा सुता वा ।
 प्रेमस्थानानि तुल्या गुरुपदपदवीरेणुनानातु(?)नामी
 यद्वाङ्मात्रेण दृष्टिर्भवति नबनवा ब्रह्मपर्यन्तमार्गा ।। ८३ ॥
 वेदाः शास्त्राणि गाथा मुनिभिरभिहितानीतिहासाः पुराणा-
 न्यास्यश्वासप्रवृत्तेर्मलिनतररुचीनीतिनेहामहेद्या ।
 यद्रष्टुं नैव करमादपि सहजशुचिस्फीतसारं विशुद्धं
 तद्ब्रह्मप्रीतिहेतोरचललयलवप्राप्तबोधं भजामः ।। ८४ ॥
 गार्हस्थ्यं नाम धर्मो भवति यदि महान्बुद्धिरित्याद्रियध्वे
 जातामेतां विवेकात्परिणयत सुखं शान्तिकामां कुमारीम् ।
 देहे गेहे चरन्तो जनयत च सुतं ज्ञानमानन्दकन्दं
 सद्यः संतोषयन्तो मरुदतिथिवरात्पञ्चपञ्चाध्वनीनान् ।। ८५ ॥
 निर्वाणं गन्तुकामस्त्वमसि यदि तदा मुञ्च कर्माणि दूरा-
 देकं तद्ब्रह्म चित्ते कुरु सपदि महामोहसंदोहहारि ।
 बोधे यस्यास्य सद्यो विषयविषधरोनैति पार्श्व कदाचि-
 न्नैवं नैव प्रभावं प्रकटयति निजं सत्कृतं दुष्कृतं च ।। ८६ ॥
 चक्षुः किंचिद्विवक्षु त्वमसि न विदितं कैतवं जीवबन्धो-
 जीवस्यैतस्य गर्ने दुरितमनुभवन्मोचितोऽसौ मयैव ।
 केनोपायेन साधो विषयसुखभरात्स्वं निवार्य प्रयत्ना-
 दन्तर्गामीह भूत्वा सममपि मनसा ब्रह्म दृष्टं कदाचित् ॥ ८७ ।।
 शब्दातीतं यदन्तः किमपि न विषयः स्पर्शनस्यापि कश्चि-
 न्निर्गन्धेनैव नासा प्रभवति रसनाखादहीने किमर्था ।
 अन्तर्गामीह भूत्वा तदमलममलानन्दसंदोहहेतुं
 पश्यामि ब्रह्मजिह्मेतरमुदितभवखादवैरस्थमञ्चत् ।। ८८ ॥
 योगश्चेतोनिरोधे परिचितपरमब्रह्मकर्मेति मन्ये
 तस्योपायाः कियन्तो यमनियममुखान्यष्ट ते वर्णनीयाः
 येषामभ्यासयोगे समुदयति शमश्चेतसः स्पास्थिरत्वं
 साक्षात्कारः समाधौ प्रभवति विमलब्रह्मणोऽद्वैतसिद्धेः ॥ ८९ ॥

 आत्मन्यध्यात्मयोगो मुनिभिरभिहितः खानुभूतश्चिरेण
 ख्यातः केनाधुनायं बहिरपि न भवेद्यत्प्रपञ्चः समस्तः ।
 साक्षात्कारो ह्यमुष्य प्रथयति सकलं विश्वजातं हि मिथ्या
 चक्षुश्चेदन्तरात्मन्यवहितमनिशं क्षोदमात्रायेण ।। ९० ।।
 देशे सक्तो विविक्ते भयविकृतरुषां हेतुरिक्तेति रिक्ते
{{gap|3em}नात्यन्तं शीतभाजि प्रतपनरहिते चोच्चशब्दादिवर्जे ।
 अस्मिन्नास्तीर्यवर्य पृषदजिनमलं कोमलं वा विकाद्यं(१)
 कौशेयं बान्वगाहि प्रचुरशुचिगुणं चासनं कल्पनीयम् ।। ९१ ।।
 कृत्वा पद्मासनाख्यं दृढमधिकलयं नातिदीर्घोर्ध्ववकायः
 कम्पं निर्जित्य तन्वा स्थिस्तरनयनो नासिकाग्रे निमीलन् ।
 पाणावृत्तानसंस्थे करतलमपरं धार्यमुत्तानमेव
 ज्ञेयं योगाङ्गमाद्यं प्रभवति न यतो व्याधिरालस्वमसात् ।। ९२ ॥
 सिद्धानामासनानि श्रममदमदनव्याधिबाधौद्धुराणि
 यानि ख्यातानि तेषामपि च परिचयः सेवनीयः प्रयत्नात् ।
 तस्माचेतःस्थिरत्वं भवति च मरुतः साध्यमार्गप्रवेशो
 नालस्यस्योदय: स्यादिति हठयतिनामेकतो बल्लभः स्यात् ।। ९३ ।।
 अभ्यासेनासनानां प्रतिदिवसमथालस्यमौत्सुक्वमन्त-
 र्जित्वा निद्रां च योगी गुरुचरमरश्चिन्तयन्वस्थचित्तः ।
 प्राणायामं विदध्यात्वहिरमिसुरते मारुतानेकनासा-
 रन्ध्रेणापीय तृष्णीं धमनिमुपचितां पूरयेन्निस्तरङ्गः ।। १४ ॥
 कर्मैतत्पूरकाख्यं तदनु वितनुते कुम्भकं नीतमन्त-
 र्वायु नाड्यां निरुद्धं समयगणनया तुल्यया पूरकेण ।
 नासारन्ध्रेण भूयस्त्यजति च मरुतः कुम्भितानल्पवेगा-
 न्मात्रास्मिन्पूरकस्य प्रभवति नियतं रेचकं कर्म चैतत् ।। ९५ ।।
 मात्रैकोङ्कारपाठैर्द्विधिकदशभिस्तादृशो द्वादश स्यु-
 र्मात्राश्चेत्सिद्धमेतत्प्रणवजपविधिस्तत्परं निर्जयोऽपि ।

 प्राणायामो विधेयो जपविधिविरहादेव सिद्धो जपाख्यः
 स्यादेतन्न द्वितीयं क्रमकथनतया प्राणसंरोधनामा ॥ ९६ ।।
 चान्द्री नाडी दिने चेदुदयति रजनी स्याचदा योगमार्गे
 भानोर्नाडी निशायां भवति दिनमिदं संधिरेतन्ममत्वम् ।
 सूर्येणापूर्य सभ्यरध्रुवमिह शशिना रेचयेज्जातशातः
 संकेतोऽयं मुनीनां पवन विधिपुषामेतदर्थं विचारः ॥ ९७ ।।
 प्रत्याहारं तृतीयं वपुरभिदधति ज्ञानिनो रिच्यमानं
 कुम्भीभूतं समीरं प्रणयगणनया तुल्यमापूरकेण ।
 नीतं नासापुटेन प्रथममुपचितं येन चान्येन तस्मा-
 न्मन्दं मन्दं विहेयं स्थिरतरमनसा योगिना ध्यानयोगात् ।। ९८ ॥
 येनोपायेन वायुः प्रविशति यमिनः पश्चिमे मार्गसंधौ
 तत्राधेयः श्रयत्नः पथि पथि विमले तत्र तत्र क्रमेण ।
 कामन्बिन्दुस्थलीनां सपदि परिसरं वायुरेकान्तसुस्थः
 खादं बिन्दुं सुधाया वपुषि च सकले सेचसन्स्थैर्यमेति ।। ९९ ॥
 योगस्याङ्गं चतुर्थं बदति बुधजनो धारणेति प्रसिद्धं
 यस्यामस्वामिलाया बदनपरिगतं नीतमन्तः समीरम् ।
 भूयो जातं सुषन्नो(खं नो) दरवरकुहरे निस्तरंग स्थिरं च
 मात्रायोगेन मुञ्चेद्वपुषि च सकले जायते शून्यतापि ॥ १०० ॥
 ध्यानासक्तः स्थिरास्यः कियदशनकृताहारतोषस्तपस्वी
 जित्वा सर्वेन्द्रियाणि प्रसभमुषगतः खेचरत्वं प्रसिद्धः ।
 सिद्धिर्वाचामनी वा स्फुरति च परितो जातसंतोषपोषो
 निर्दोषः पूरुषः स्यादिति नियततया धारणा कर्मणीह ।। १०१ ॥
 लीनं खात्मानमात्मन्यवहितमनसा चक्षुषा चान्तरेण
 भिन्नं ध्यानेन कृत्वा कलयति लयतो निर्विशेषात्मवृतिः ।
 मूर्च्छारूपं लयं यद्ग्रजति बुधजनो मीलिताक्षो विनिद्रो
 भात्रां द्वित्रि(१)प्रपन्नां स्थिरपवनगतिः शश्वदभ्यासयोगात् ॥१०२ ।।

न० गुरु

 मुञ्चेचेतश्चलत्वं नयनपथवहिर्भूतमर्थं च पश्ये-
 जानीयाद्दूरतोऽपि श्रुतिपथरहितं शब्दमाकर्णयेच्च ।
 निर्णेतुं भावि वस्तु प्रभवति निजया जातया ज्ञानबुध्या
 यत्रेदं ध्यानमङ्गं तदिदमुपगतं योगिनो मुक्तिसिध्योः ।। १०३ ।।
 आकाशस्येह मध्ये खगसदृशमनुस्यूतमाकारभावं
 नीरूपं बस्तु किंचित्कलयति मनसा रूपवच्चेति मत्वा ।
 चिन्तातीतो न शून्यो वियदिह विहगाकारमाधारमात्रं
 सत्येनासौ समाधौ रचयति परमान्भौतिकाणूपरेव ॥ १० ॥
 मन्द मन्दं यदन्ता रचयति वपुषो मध्यमक्षिप्रपन्नं
 रुद्वा द्वाराणि सर्वाण्यपि नवगणितान्यादृतो ध्यानमार्गे ।
 निष्कम्पा तालुमूले स्थिरयति रसनां चक्षुषी मीलयित्वा
 पीयूषं खादु सद्यो रसयति गलितं दुन्ततो लग्नदन्तः ॥ १०५ ॥
 नोत्पत्तिः स्थाजराया मरणमपि भवेद्ऱूरतोऽस्मान्नराणां
 नाहंकारो न रोषः सकलजनहितः सत्त्वसंतुष्टचित्तः ।
 बायोरभ्यासलीने यमविधिषु रते योगवित्सिद्धबुद्धिः
 सिद्धिं निर्वाणमार्गप्रचरणमृदुताकारणानीक्ष्यमाणः ॥ १०६ ॥
 कर्मण्यध्यात्मसंज्ञे समुदितविषयावज्ञया चित्तवृत्ते-
 रौत्सुक्ये चायनीते व्यवहितविगलन्निद्गया जागरूकः
 अत्यन्तं नाशकासयतिन(१) निरशनश्चित्तजामन्न यस्यै
 दीर्घायुः पूरुषः स्यादिति नियमविधौ दत्तनित्यानधानः ॥ १० ॥
 इत्यज्ञेषु स्थिरेषु प्रभवदुरुशमः क्षीणसर्वापराधः
 श्रावं श्रावं गुरुभ्यो बहु(१)मुपनिषदं ब्रह्म निर्णीय सम्यक् ।
 कृत्वा साक्षादशेषं जगदपि लयतो लीयमानं तदन्त-
 र्योगी संसारसारं फलमनुभवति प्राप्तब्रह्मैकरूपः ॥ १०८ ॥

इति तपःसिद्धतरखरतरान्नायसोनवंशावतंसनीमास्कुलतिलकसंघपालश्रीमहेहडात्सजविविधबिरुदराजीविराजमान संघपतिश्रीधनराजविरचिते शतकनन्नये

वैराग्यघनदामिधानं तृतीयं शतकं समाप्तम्