लोचनम्
एकं नवत्वन्ददाति, सत्यपि पुराणकविस्पृष्टेऽर्थे । तथाहि पुराणीगाथा-
चाइअणकरपरम्परसञ्चारणखे अणिस्सहससरोरा । |
अलङ्कारेण व्यङ्गयेन वाच्योपस्कारे नवत्वं यथा ममैव-
बसन्तमत्तालिपरम्परोपमाः कचास्तवासन् कल रागवृद्धये । |
अत्र ह्याक्षेपेण विभावनया च ध्वन्यमानाभ्यां वाच्यमुपस्कृतमिति नवत्वं सत्यपि पुराणार्थयोगित्वे । तथाहि पुराणश्लोकः-
क्षुत्तृष्णाकाममात्सर्थं मरणाच्च महद्भयम् । |
व्यङ्गेन रसेन गुणीभूतेन वाच्योपस्कारेण नवत्वं यथा ममैव-
जरा नेयं मूर्ध्नि ध्रुवमयमसौ कालभुजगः |
बालप्रिया
त्यागिजनकरपरम्परासञ्चारणसेदनिस्सहशरीराः । |
...इति छाय।। अर्थः स्पष्टः। वसन्तेति। कश्चन मित्रं प्रति कस्यचिदुक्तिः । वसन्ते वसन्तेन वा मत्ता ये अलयो मृशास्तत्परम्परोपमाः तेषां परम्परया तुल्या: अतिनी- लस्निग्धा इति यावत् । तथाभूताः कचा इत्यनेन यौवनदशा प्रदर्शिता । तव रागस्य वृद्धये आसन् किल । श्मशानभूभागे ये परागाः भस्मरेणवस्ते इव भासुराः शुभ्राः जरया शुक्ला इति यावत् । एते कचाः । रागस्य वैराग्यस्य चोद्दीपकत्वात्तत्तदुपमान. मुपात्तम् । तव मनागीषदपि विरक्तये वैराग्याय न भवन्ति । तत् तथं वैराग्यस्थ कारणे सत्यपि तदजननं कुत इत्यर्थः ।
अनेन प्रत्युत कारणाभावेऽपि काम एव वर्धत इत्यर्थस्य कामस्य महिमा वर्णयि- तुमशक्य इत्यर्थस्य च प्रकाशनाद्विभावनाक्षेपौ व्यज्येते, ताभ्यां च वाच्यमुपस्क्रिय- यत इत्याह-अत्र हीत्यादि ।
क्षुडिति ।। क्षुत्तृष्णेत्यादिसमाहारद्वन्द्वः । जरेति । जराजीर्ण: कश्चिदुद्दिश्योक्तिः। मुर्ध्नि इयं दृश्यमाना जरा न भवति । अयमसो क्रुधान्धः । कालभुजगः कृष्ण ।सर्पः । अथ च अन्तकरूपी भुजगः। फुत्कारः स्फुटं गरलं येषु तथाभूतान् फेनान् प्रकिरति वर्षति । इयं न जरा, किन्तु शिरस्थकालभुजगाभिवृष्टः फेननिकर