तच्चोदाहृतविषयमेव ॥
इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके
द्वितीय उद्दयोतः॥ |
लोचनम्
ध्वनिलक्षणम् , लक्षणस्य ज्ञानपरिच्छेद्यत्वात् । वृत्तावेवकारेण ततोऽन्यस्य चाभासरू- पत्वमेवेति सूचयता तदाभासविवेकहेतुभावो यः प्रक्रान्तः स एव निर्वाहित इति शिवम् ॥
प्राज्यं प्रोल्लासमानं सद्भदेनासूच्यते यया । |
इति श्रीमहामाहेश्वरोचार्यवभिनवगुप्तोन्मीलिते सहृदयालोक
लोचने ध्वनिसङ्केते द्वितीय उद्दयोतः॥ |
बालप्रिया
ज्ञानमेवेत्यादि । ज्ञानपरिच्छेद्यत्वादिति । लक्ष्यज्ञानेन निर्णेतव्यत्वादित्यर्थः गवादिज्ञानेन हि गवादिलक्षणं परिच्छिद्यते । एवकारेणेति । उदाहृतविषयमेवेत्येव- कारणेत्यर्थः
प्राज्यमिति । यया मायारूपया परमेश्वर्या प्राज्यं प्रभूतम् इदं जगदि. ति प्रथमान्ततयाऽपकृष्यते । प्रोल्लासः प्रतीतिस्तन्मात्रम् सत् न तु वस्तुसदिति भावः । भेदेन ब्रह्मभिन्नत्वेन । यद्वा-सद्भेदेनेत्येकं पदम् सतो ब्रह्मणो भिन्नत्वेने- त्यर्थः । आसूच्यते प्रकाश्यते । इदं जगत्पश्यन्तीं तामभिनवगुप्तोऽहं वन्दे इति सम्बन्धः इति सर्वं शिवम् ।
इति श्रीसहृदयतिलकपण्डितराजरामषार कविरचितायां ध्वन्यालोकटिप्पण्या
बालप्रियायां द्वितीयोद्द्योतः समाप्तः ॥ |