शोभा न जायते तेषां मण्डलेन्द्रगृहं विना' ॥ १३१ ॥
कालिदासः-
'अदातृमानसं क्वापि न स्पृशन्ति कवेर्गिरः।
दुःखायैवातिवृद्धस्य विलासास्तरुणीकृताः ॥ १३२ ॥
राजा प्रतिपण्डितं लक्षं दत्तवान् ।
ततः कदाचिद्राजा समस्तादपि कविमण्डलादधिकं कालिदासमवलोक्यायान्तं परं वेश्यालोलत्वेन चेतसि खेदलवं चक्रे । तदा सीता विद्वद्वृन्दवन्दिता तदभिप्रायं ज्ञात्वा प्राह- -'देव,
दोषमपि गुणवति जने दृष्ट्वा गुणरागिणो न खिद्यन्ते ।
प्रीत्यैव शशिनि पतितं पश्यति लोकः कलङ्कमपि ॥ १३३ ॥
तुष्टो राजा सीतायै लक्षं ददौ । तथापि कालिदासं यथापूर्वं न मानयति यदा, तदा स च कालिदासो राज्ञोऽभिप्रायं विदित्वा तुलामिषेण प्राह-
'प्राप्य प्रमाणपदवीं को नामास्ते तुलेऽवलेपस्ते ।
नयसि गरिष्ठमधस्तात्तदितरमुच्चैस्तरां कुरुषे ॥ १३४ ॥
पुनराह-
'यस्यास्ति सर्वत्र गतिः स कस्मात्स्वदेशरागेण हि याति खेदम् ।
तातस्य कूपोऽयमिति ब्रुवाणाः क्षारं जलं कापुरुषाः पिबन्ति' ॥ १३५ ॥
ततो राज्ञा कृतामवज्ञां मनसि विदित्वा कालिदासो दुर्मना निजवेश्म ययौ।
अवज्ञास्फुटितं प्रेम समीकर्तुं क ईश्वरः ।
सन्धिं न याति स्फुटितं लाक्षालेपेन मौक्तिकम् ॥ १३६ ॥
ततो राजापि खिन्नः स्थितः । ततो लीलावती खिन्नं दृष्ट्वा राजानं विषादकारणमपृच्छत् । राजा च रहसि सर्वं तस्यै प्राह । सा च राजमुखेन कालिदासावज्ञां ज्ञात्वा पुनः प्राह–'देव प्राणनाथ, सर्वज्ञोऽसि ।
स्नेहो हि वरमघटितो न वरं सञ्जातविघटितस्नेहः ।
हृतनयनो हि विषादी न विषादी भवति जात्यन्धः ॥ १३७ ॥
परन्तु कालिदासः कोऽपि भारत्याः पुरुषावतारः । तत्सर्वभावेन सम्मानयैनं विद्वद्भ्यः । पश्य-(१) जन्मान्ध इति यावत् ।