अथर्ववेदः/काण्डं ७/सूक्तम् ०२६

विकिस्रोतः तः
← सूक्तं ७.०२५ अथर्ववेदः - काण्डं ७
सूक्तं ७.०२६
मेधातिथिः
सूक्तं ७.०२७ →
दे. विष्णुः, वरुणः। त्रिष्टुप् ।

ययोरोजसा स्कभिता रजांसि यौ वीर्यैर्वीरतमा शविष्ठा ।
यौ पत्येते अप्रतीतौ सहोभिर्विष्णुमगन् वरुणं पूर्वहूतिः ॥१॥
यस्येदं प्रदिशि यद्विरोचते प्र चानति वि च चष्टे शचीभिः ।
पुरा देवस्य धर्मणा सहोभिर्विष्णुमगन् वरुणं पूर्वहूतिः ॥२॥