सामग्री पर जाएँ

अथर्ववेदः/काण्डं ७/सूक्तम् ०२७

विकिस्रोतः तः
← सूक्तं ७.०२६ अथर्ववेदः - काण्डं ७
सूक्तं ७.०२७
मेधातिथिः
सूक्तं ७.०२८ →
दे. विष्णुः। १, ८ त्रिष्टुप् , २ त्रिपदा विराड्गायत्री, ३ त्र्यवसाना षट्पदा विराट् शक्वरी, ४-७ गायत्री।

विष्णोर्नु कं प्रा वोचं वीर्याणि यः पार्थिवानि विममे रजांसि ।
यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायः ॥१॥
प्र तद्विष्णु स्तवते वीर्याणि मृगो न भीमः कुचरो गिरिष्ठाः ।
परावत आ जगम्यात्परस्याः ॥२॥
यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा ।
उरु विष्णो वि क्रमस्वोरु क्षयाय नस्कृधि ।
घृतं घृतयोने पिब प्रप्र यज्ञपतिं तिर ॥३॥
इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदा ।
समूढमस्य पंसुरे ॥४॥
त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः ।
इतो धर्माणि धारयन् ॥५॥
विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे ।
इन्द्रस्य युज्यः सखा ॥६॥
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
दिवीव चक्षुराततम् ॥७॥
दिवो विष्ण उत वा पृथिव्या महो विष्ण उरोरन्तरिक्षात्।
हस्तौ पृणस्व बहुभिर्वसव्यैराप्रयच्छ दक्षिणादोत सव्यात्॥८॥

सायणभाष्यम्

सर्वसंपत्कामो 'विष्णोर्नु कम्' (अ ७,२७), इत्यष्टर्चेन विष्णुं यजेत उपतिष्ठेत वा।
तद् उक्तं कौशिकेन-'यन्न इन्द्रः' ( अ ७,२५), 'ययोरोजसा', 'विष्णोर्नु कम्' (कौसू ५९,१९) इति।
तथा 'वैष्णवीम् अन्नकामस्यान्नक्षये च' (शांक १७,३) इति विहितायां वैष्णव्याख्यायां महाशान्तौ 'विष्णोर्नु कम्' इति आवपेत् । तद् उक्तं शान्तिकल्पे- 'विष्णोर्नु कम्' इति वैष्णव्याम्” ( शांक १८,५) इति ।।
आतिथ्येष्टौ 'विष्णोर्नु कम्' इति वैष्णवं हविरभिमृशेत् । तद् उक्तं वैताने - "आतिथ्यायां हविरभिमृशति 'यज्ञेन यज्ञम्' ( अ ७,५ ) इति । वैष्णवं 'विष्णोर्नु कम्' इति" (वैताश्रौ ३,१३,१४ ) इति।
तथा सोमयागे औपवसथ्याहनि हविर्धानयोः उपस्तभ्यमानम् उपस्तम्भनकाष्ठम् अनया अनुमन्त्रयेत । “'विष्णोर्नु कम्' इत्युपस्तम्भनम् उपस्तभ्यमानम्” (वैताश्रौ ५,१२) इति वैतानसूत्रात्।
सोमयागे 'यस्योरुषु' (अ ७,२७,३) इति सोमक्रयणार्थं निष्क्रामेत् । “ 'यस्योरुषु' इति निष्क्रम्य' ( वैताश्रौ १३,५) इति वैतानसूत्रात् ।।
पशुयागात् प्राक् क्रियमाणायाम् इष्टौ 'उरु विष्णो' (अ ७,२७,३) इत्यनया वैष्णवं पूर्णहोमं ब्रह्मा अनुमन्त्रयेत । “अथ पशुः । वैष्णवं पूर्णहोमम् 'उरु विष्णो' इति" (वैताश्रौ १०,१) इति हि वैतानम् ।
तथा अद्भुतशान्तौ 'उरु विष्णो' इत्यनया विष्णुं यजेत । उक्तं शान्तिकल्पे --उरु विष्णो विक्रमस्व इति विष्णोः ( शांक १४,२ ) इति ।
दर्शपूर्णमासयोः प्रणीताप्रणयनप्रभृति हविष्कृदुद्वादनाद् अर्वाक् अभिवदनप्रायश्चित्तार्थम् ‘इदं विष्णुः' इति जपेत् । 'प्रणीतासु प्रणीयमानासु वाचं यच्छत्या हविकृत उद्वादनात् । यदि वदेद् वैष्णवीं जपेत्' ( वैताश्रौ २,२,३ ) इति हि वैतानं सूत्रम् ।
सोमयागे उत्तरवेद्यग्निप्रणयनानन्तरं दक्षिणहविर्धानस्य वर्त्महोमम् ‘इदं विष्णुः' इति ब्रह्मा अनुमन्त्रयेत।
तस्मिन्नेव कर्मणि उत्तरहविर्धानस्य वर्त्महोमं 'त्रीणि पदा' इति अनुमन्त्रयेत । तद् उक्तं वैताने - “दक्षिणहविर्धानस्य वर्त्माभिहोमम् 'इदं विष्णुः' (अ ७,२७,४) इति । उत्तरस्य 'त्रीणि पदा' (अ ७,२७,५) इति" (वैताश्रौ १५,१० ) इति ।
तृतीयसवने सोमयागानन्तरम् 'इदं विष्णुः' ( अ ७,२७,४ ) इति चमसान् अप्सु प्रक्षिपेत् । 'अप्सु सोमचमसान् वैष्णव्यर्चा निनयति’ (वैताश्रौ २३,१४ ) इति वैताने सूत्रितम् ।
तथा 'त्वाष्ट्रीं वस्त्रक्षये' (शांक १७,५) इति विहितायां त्वाष्ट्र्याख्यायां महाशान्तौ 'इदं विष्णुः' इत्यनया त्रिवृन्मणिबन्धनं कुर्यात् । तद् उक्तं शान्तिकल्पे- 'अग्निः सूर्यः' ( अ ५,२८,२ ), 'इदं विष्णुः' इति त्रिवृतं त्वाष्ट्र्याम् (शांक १९,७)।
पशुतन्त्रे अवटे स्थापितं यूपं 'विष्णोः कर्माणि' इति द्वाभ्याम् (अ ७,२७,६;७) ऋग्भ्यां ब्रह्मा अनुमन्त्रयेत । 'धर्ता ध्रियस्व' (अ १२,३,३५) इति पादेनावटे निधीयमानम्। 'विष्णोः कर्माणि' इति द्वाभ्याम् उच्छ्रितम् ( वैताश्रौ १०,९,१० ) इति वैतानं सूत्रम् ।।
तथा अग्निचयने कूर्माभ्यञ्जनानन्तरम्' उलूखलमुसलं च 'विष्णोः कर्माणि' इति ब्रह्मा अनुमन्त्रयेत । 'विष्णोः कर्माणि' इत्युलूखलमुसलं निधीयमानम्' (वैताश्रौ २९,२) इति वैताने सूत्रितत्वात् ।

विष्णो॒र्नु कं॒ प्रा वो॑चं वी॒र्या॑णि॒ यः पार्थि॑वानि विम॒मे रजां॑सि।
यो अस्क॑भाय॒दुत्त॑रं स॒धस्थं॑ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यः ।।१।।
विष्णोः। 'नु । कम् । प्र । वोचम् । वीर्याणि । यः । पार्थिवानि । विऽममे । रजांसि ।
यः। अस्कभायत् । उत्ऽतरम् । सधऽस्थम् । विऽचक्रमाणः । त्रेधा । उरुऽगायः ॥ १॥
विष्णोः व्यापनशीलस्य देवस्य वीर्याणि वीरकर्माणि नु क्षिप्रं प्रा वोचम् प्रकर्षेण ब्रवीमि । छान्दसो लुङ् । कम् इति पूरणः । विष्णुर्विशेष्यते -यो देवः पार्थिवानि पृथिवीमयानि रजांसि लोकान् विममे निर्ममे । 'तिस्रो भूमीर्धारयन् त्रीरुत द्यून्' (ऋ २,२७,८ ) इति मन्त्रवर्णे एकैकस्य लोकस्य त्रित्वसंख्या श्रूयते । यद्वा 'त्रयो वा इमे त्रिवृतो लोकाः' (ऐब्रा २,१७) इति एकैकस्य त्रिवृत्करणश्रवणात् पार्थिवानीत्यत्र पृथिवीशब्देन पृथिव्यन्तरिक्षद्युलोका उच्यन्ते । 'द्वितीयस्यां पृथिव्यां तृतीयस्यां पृथिव्याम्' (तु. तै १,२,१२,१) इति हि तैत्तिरीयश्रुतिः । पृथिवीषु भवानि । पृथिवीशब्दाद् भवार्थे अञ्प्रत्ययः । रजांसि ज्योतींषि अग्निविद्युत्सूर्यात्मकानि विममे निर्मितवान् । किं च यो विष्णुः उत्तरम् उद्गततरं सधस्थं स्थानम् । सह तिष्ठन्त्यस्मिन् देवा इति सधस्थम् स्वर्गम् । 'सध मादस्थयोश्छन्दसि' (पा ६,३,९६ ) इति सहस्य सधादेशः । अस्कभायत् अस्तभ्नात् अधारयत् । 'स्तन्भुस्तुन्भु' (पा ३,१,८२) इत्यादिना स्कभेः श्नाप्रत्यये 'शायच् छन्दसि सर्वत्र' (पावा ३,१,८४ ) इति शायजादेशः। किं कुर्वन् । त्रेधा त्रिधा पृथिव्याम् अन्तरिक्षे दिवि च विचक्रमाणः पादप्रक्षेपं कुर्वन् उरुगायः उरुभिर्महात्मभिर्गीयमानः स्तूयमानः उरुगमनो वा । तस्य विष्णोर्वीर्याणि प्रब्रवीमीति संबन्धः।

प्र तद्विष्णु॑ स्तवते वी॒र्या॑णि मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः।
प॑रा॒वत॒ आ ज॑गम्या॒त्पर॑स्याः ।।२।।
प्र । तत् । विष्णुः ! स्तवते । वीर्याणि । मृगः । न । भीमः । कुचरः। गिरिऽस्थाः ।
पराऽवतः । आ । जगम्यात् । परस्याः ॥ २ ॥
तत्। लिङ्गव्यत्ययः । स महानुभावो विष्णुः वीर्याणि वीरकर्माणि । उद्दिश्येति क्रियाध्याहारः । प्र स्तवते प्रकर्षेण स्तूयते । स्तौतेः कर्मणि व्यत्ययेन शप् । मृगो न मृग इव सिंह इव भीमः भयानकः कुचरः कुत्सितं चरन् कौ भूम्यां वा चरन् गिरिष्ठाः पर्वते तिष्ठन् भूमौ संचरन्नपि सिंहः उत्प्लवनेन पर्वतस्थितो भवति । एवं स विष्णुः परस्याः परावतः अतिदूराद् देशादपि आ जगम्यात् स्तुतिकर्मत्वेन आगच्छतु । गमेश्छान्दसः शपः श्लुः। यस्य विष्णोः उरुषु विस्तीर्णेषु त्रिषु विक्रमणेषु पादनिधानस्थानेषु' विश्वा विश्वानि भुवनानि भूतानि अधिक्षियन्ति अधिवसन्ति । क्षि निवासगत्योः। प्रथमे विक्रमे भौमानि द्वितीये अन्तरिक्ष्याणि तृतीये दिव्यानि भूतानि वसन्तीत्यर्थः ।।

यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑नेष्वधिक्षि॒यन्ति॒ भुव॑नानि॒ विश्वा॑।
उ॒रु वि॑ष्णो॒ वि क्र॑मस्वो॒रु क्षया॑य नस्कृधि।
घृ॒तम्घृ॑तयोने पिब॒ प्रप्र॑ य॒ज्ञप॑तिं तिर ।।३।।
यस्य । उरुषु । त्रिषु । विऽक्रमणेषु । अधिऽक्षियन्ति । भुवनानि । विश्वा ।
उरु । विष्णो इति । वि । क्रमस्व । उरु । क्षयाय । नः । कृधि ।
घृतम् । घृतऽयोने । पिब । प्रऽप्र । यज्ञऽपतिम् । तिर ॥ ३ ॥
हे विष्णो व्यापक उरु प्रभूतं वि क्रमस्व लोकत्रये पादत्रयं कुरु । किं च नः अस्माकं क्षयाय निवासाय । षष्ठ्यर्थे चतुर्थी । निवासस्य उरु प्रभूतं धनादिकं कृधि कुरु । अस्माकं निवासं बहुधनादियुक्तं कुर्वित्यर्थः । हे घृतयोने घृतस्य योने कारणभूत । घृतं योनिर्यस्येति वा घृतयोनिः । अत्र अग्न्यात्मना विष्णुः स्तूयते - हे विष्णो इदं हूयमानं घृतम् आज्यं पिब । अपि च यज्ञपतिम् यजमानं प्रप्र तिर प्रवर्धय । प्रपूर्वस्तिरतिर्वर्धनार्थः । 'प्रसमुपोदः पादपूरणे' (पा ८,१,६) इति प्रशब्दस्य द्विर्वचनम् ।

इ॒दं विष्णु॒र्वि च॑क्रमे त्रे॒धा नि द॑धे प॒दा।
समू॑ढमस्य पंसु॒रे ।।४।।
इदम् । विष्णु: । वि | चक्रमे । त्रेधा । नि । दधे । पदा ।
सम्ऽऊढम् । अस्य । पांसुरे ॥
विष्णुः व्यापी भगवान् इदं विश्वं वि चक्रमे विक्रान्तवान् । कतिधा विचक्रमे इति तद् आह-त्रेधा त्रिधा पदा पदानि नि दधे स्थापयामास । 'पृथिव्याम् अन्तरिक्षे दिवि च विष्णुर्वामनो भूत्वेमॉल्लोकांस्त्रिभिः क्रमैरभ्यजयत्' (तु. तै २,१,३,१) इति श्रुतेः । अस्य विक्रममाणस्य विष्णोः पांसुरे पांसुमति । रो मत्वर्थीयः । पादे लोकत्रयं समूढम् सम्यग् ऊढं समवस्थापितं समाकृष्टं वा अभवत् । अत्र 'विष्णुर्विशतेर्वा व्यश्नोतेर्वा । xxx यद् इदं किं च तद् विक्रमते विष्णुः । त्रिधा निधत्ते पदम् । पृथिव्याम् अन्तरिक्षे दिवीति शाकपूणिः' (नि १२, १९) इत्यादि निरुक्तम् अनुसंधेयम् ।


त्रीणि॑ प॒दा वि च॑क्रमे॒ विष्णु॑र्गो॒पा अदा॑भ्यः।
इ॒तो धर्मा॑णि धा॒रय॑न् ।।५।।
त्रीणि । पदा । वि । चक्रमे । विष्णुः । गोपाः । अदाभ्यः ।
इतः । धर्माणि । धारयन् ॥
त्रीणि पदा पदानि वि चक्रमे विक्रान्तवान् । गोपाः गोपायिता अदाभ्यः अहिंस्यः परैरनभिभाव्यो विष्णुः । अतः अस्मात् लोकात् । पृथिव्या आरभ्य धर्माणि कर्माणि अग्निहोत्रादीनि धारयन् । अपि वा अतः एभ्यस्त्रिभ्यः पदेभ्यो धर्माणि भूतधारकाणि रजांसि पृथिव्यन्तरिक्षद्युलोकरूपाणि धारयन् । विचक्रमे इति संबन्धः ।


विष्णोः॒ कर्मा॑णि पश्यत॒ यतो॑ व्र॒तानि॑ पस्प॒शे।
इन्द्र॑स्य॒ युज्यः॒ सखा॑ ।।६।।
विष्णोः । कर्माणि । पश्यत । यतः । व्रतानि । परपशे ।
इन्द्रस्य । युज्यः । सखा ॥६॥
विष्णोः व्यापकस्य देवस्य कर्माणि पश्यत । हे स्तोतार इति शेषः । यतः। 'इतराभ्योऽपि दृश्यन्ते' (पा ५,३,१४) इति तृतीयार्थे तसिल्प्रत्ययः । यैः कर्मभिः व्रतानि नानाविधानि युष्मदीयानि कर्माणि । पस्पशे स्पृशति बध्नाति वा । स्पश 'बन्धनस्पर्शनयोः । स्वरितेत् । छान्दसो लिट् । शर्पूर्वस्य खयः शेषः । पुनः कीदृशो विष्णुः । इन्द्रस्य देवस्य युज्यः योग्यः अनुगुणः सखा समानख्यानो मित्रभूतः । युज्य इति । युजेः संपदादिलक्षणे क्विपि युग् इति पदं भवति। युजि योगे साधुः। 'तत्र साधुः' (पा ४,४,९८) इति यत्।
 इति तृतीयेऽनुवाके प्रथमं सूक्तम् ।
 
'तद् विष्णोः' इति द्वितीयं सूक्तम् । तत्र आद्ययोर्ऋचोः ( अ ७,२७,७,८ ) सर्वसंपत्कर्मणि 'विष्णोर्नु कम्' इत्यत्र विनियोगोऽभिहितः ।
दर्शपूर्णमासयोः 'वेदः स्वस्तिः' (अ ७,२९) इति वेदं विमुञ्चेत् । “ 'वेदः स्वस्तिः' इति वेदं विचृतति" (वैताश्रौ ४,१२) इति वैतानसूत्रात् ।

तद्विष्णोः॑ पर॒मं प॒दं सदा॑ पश्यन्ति सू॒रयः॑।
दि॒वीव॒ चक्षु॒रात॑तम् ।।७।।
तत् । विष्णोः । परमम् । पदम् । सदा । पश्यन्ति । सूरयः ।
दिविऽइव । चक्षुः। आऽततम् ॥
तत् प्रसिद्धं पूर्वत्रोक्तं वा विष्णोः व्यापकस्य देवस्य परमम् उत्कृष्टं पूर्णं वा पदम् स्थानम् , पद्यते गम्यत इति पदं ज्ञातव्यं तत्त्वं वा सदा सर्वदा सूरयः मेधाविनः पश्यन्ति साक्षात्कुर्वन्ति । कीदृशम् । दिवि द्युलोके चक्षुरिव आततम् । सर्वेषां चक्षुःस्थानीयं सूर्यमण्डलम् इह चक्षुःशब्देनोच्यते । 'चक्षुर्मित्रस्य वरुणस्याग्नेः' (ऋ १,११५,१) इति हि निगमः । आततम् समन्ताद् विस्तारितम् । ‘गतिरनन्तरः' (पा ६,२,४९) इति गतेः प्रकृतिस्वरत्वम् । सूर्यमण्डलमिव सर्वत्र प्रकाशस्वरूपं तत्त्वं पश्यन्तीत्यन्वयः ।

दि॒वो वि॑ष्ण उ॒त वा॑ पृ॑थि॒व्या म॒हो वि॑ष्ण उ॒रोर॒न्तरि॑क्षात्।
हस्तौ॑ पृणस्व ब॒हुभि॑र्वस॒व्यैरा॒प्रय॑च्छ॒ दक्षि॑णा॒दोत स॒व्यात् ।।८।।
दिवः । विष्णो इति । उत । वा । पृथिव्याः। महः । विष्णो इति । उरोः । अन्तरिक्षात् ।
हस्तौ । पृणस्व । बहुऽभिः । वसव्यैः । आऽप्रयच्छ । दक्षिणात् । आ । उत । सव्यात् ।
हे विष्णो देव दिवः द्युलोकात् उत वा अपि वा पृथिव्याः महः महतः दिवः पृथिव्याश्च महतोऽन्यस्मात् महर्लोकादेः । महच्छब्दात् पञ्चम्येकवचने टिलोपश्छान्दसः । महतेर्वा पूजार्थात् क्विबन्तात् पञ्चम्येकवचनम् । यद्वा मह इति पदम् अन्तरिक्षस्य विशेषणम् । हे विष्णो । पुनरामन्त्रणम् आदरार्थम् । उरोः विस्तीर्णात् । भाषितपुंस्कत्वेन नुमभावः । अन्तरिक्षात् लोकात् । आनीतैरिति शेषः । बहुभिः अधिकैः वसव्यैः वसूनां समूहैः । वसोः समूहे च' ( पा ४,४,१४० ) इति यत्प्रत्ययः। हस्तौ त्वदीयौ पृणस्व पूरय । द्युलोकादिभ्यः आनीतैर्बहुभिर्धनैस्त्वदीयौ हस्तौ पूरय । प्रभूतं धनराशिं हस्ताभ्यां गृहाणेत्यर्थः । ततस्तं प्रभूतं धनराशिं दक्षिणात् हस्ताद् आप्रयच्छ आभिमुख्येन अस्मभ्यं देहि । उत अपि च सव्यात् वामहस्ताच्च आ। प्रयच्छेत्यनुषङ्गः । दाण् दाने । 'पाघ्रा' (पा ७,३,७८) इत्यादिना यच्छादेशः।

टिप्पणी