पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला । सूचितम् । येन भगवता स्वतश्रेण धराधराणयोग्यों वासुकिर्हारतां नीतः। एतेन वि. श्वाधारत्वं ध्वनितम् । तथा तपोपायात्संयमविघ्नविधायित्वात् न त्वीर्ष्य॑या कोपात्तां वि- श्वस्य प्रसिद्धां स्मरस्य तनुं जहार दिदाहेति प्रतीयते । तामित्यनुभवगोचराम् । अत एव यच्छब्दोपादानं न कृतम् । यदाहु:--'प्रकान्तप्रसिद्धानुभूतविषयस्तच्छन्दो यच्छब्दो- पादानं नापेक्षते । तत्र नमस्कारः स्वातन्त्र्यकर्तृत्वाद्भगवतः सर्वातिशायित्वादर्थादेवा- क्षिप्तः ॥१॥ रक्षावतारं गम्भीरं भवमुग्रं हरेश्वर । नय नीतिगुणं तं तु ममताप्रियतामिमाम् ॥ २ ॥ हे ईश्वर परमात्मन् , तदुक्तम्-'क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः। तत्संबोधनम् । भवं संसारं गम्भीरं त्वं हर निवारय । कथंभूतं भवम् । उग्रं कठिनम् । त्वं भक्तानामवतारमवतरणं भवात्पुन:पुनरागमनं रक्ष । कविना च अवतारमवतारना- मानं मां पाहीति स्वनाम ध्वनितम् । तु पक्षान्तरें । इमां प्रत्यक्षां सर्वेषां ममताप्रिय- तामहंकृतिहेवाकितां तं प्रसिद्धं लोकोत्तरं नीतिगुणं नय प्रापयः । अत्र च रक्ष अव, तारं गम्भीरं, भवं उग्रं, हर ईश्वर, नय नीति, गुणं तन्तुं, अमत अप्रिय, इति द्वयो- र्द्वयोः शब्दयोरर्थस्य पौनरुक्त्यभिधावभासते । भिन्नार्थत्वात्तु पुनरुक्तवदाभासः । मुखावभासनं तु पुनरुक्तवदाभासम्' इति ॥ २ ॥ वदामि ते स्वं रमयन्नमोऽहं वहामि संसारमयं न मोहम् । तनुर्मुदायोगवता स्मितेन मुक्तः स्फुरद्योग बतास्मि तेन ॥ ३ ॥ अहं ते तुभ्यं नमो वदामि नमस्कारं करोमि । अनेन कायवाक्चित्तानां प्रह्णीभावः सूचितः । अत एक स्वमात्मानं रमयन्नानन्दयन्संसारमयं मोहमज्ञानरूपं. न वहामि यदुक्तम्-'आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन' इति । हे भगवन्स्फुरद्योग, बत आश्चर्यं । अहं तनुस्तुच्छोऽपि मानुषादज्ञानात मुदां हर्षाणां निरतिशयनीतिरूपाणाम् आसमन्तात् योग आयोगः तद्वता मुदायोगवता स्वानुभवैकगोचरेण स्मितेन अमिम- तप्राप्त्या हसितेनोपलक्षितः सन्मुक्तोऽस्मि । यमकम् ॥ ३॥ सृष्टिस्थिती प्रारभजता कृतापवर्गोंद्यमेनाथ भवान्धकारे। धृतं त्वया विश्वमतो हतारिवर्गोऽद्य मे नाथ भवान्धकारे ॥ ४ ॥ हे नाथ हे अन्धकारे अन्धकासुररिपो, प्राक् सृष्टिस्थिती भजता कुर्वता त्वया अ- थानन्तरं भवान्धकारे संसाररूपान्धकारे कृतापर्गोधमेन कृतो भक्तानामपवर्गार्थमुद्यमो येन तथाविधेन । त्रिविधकृत्यकारिणा त्वयैव विश्वं श्रुतम् । अतो ममापि अद्य हतारि- वर्गा भवः । हृता अरयो मुख्याः कामादयों येन तादृशः । पादयमकम् ॥ ४ ॥ सज्जातसज्जाततलोचनाग्रे संध्यात संध्यातपसा सुरौधैः । माधीनमाधीनपरिग्रहेण कालेन कालेन हृतं कृथा माम् ॥ ५ ॥