पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सुदर्शनचम्पूकाव्यम् । जागर्यायां जपति रसना युष्मदाख्यां यथा मे निद्रायामप्युपहितमनास्त्वेन शश्वत्तथैव । तस्मात्संप्रत्यहनिशि """"वा जागरानिद्रयोर्मे भेदं लोका अपि पटुधियो जानते नापरीक्ष्यम् ॥ १३०॥ शङ्कातकर्मलिनमगुणैरुत्सृजन्पूर्वपक्षं सिद्धान्तं सद्विभव भवदाराधनं संश्रितोऽसि । संभाव्यस्तत्परमगुरुभिः स्निग्धया प्रेमदृष्ट्या येनात्यर्थं फलितसकलप्रार्थितोऽर्थो भवेयम् ॥ १३१ ।। इति श्रीमेघदूतच्छायाकाव्यमिन्दुदूताभिधं काव्यं समाप्तम् ।

श्रीकृष्णानन्दकवीन्द्रविरचितं सुदर्शनचम्पूकाव्यम्। नारायणपदाम्भोजमकरन्दमधुव्रतः । कृष्णानन्दः करोत्येनां चम्यूं सर्वमनोरमाम् ॥ १॥ शास्त्रं स्मृतिं च साहित्यं कृष्णानन्देन धीमता । अधीत्य क्रियते चम्पूः शं पूरयतु सर्वतः ॥ २ ॥ दंष्ट्रादुष्टकरालकालियशिरोभङ्गप्रसङ्गोच्छल- द्रक्तव्यक्तजलौघपूर्णयमुनाकूलप्रवाहोत्सवः । स्फूर्जदुर्जयकंसकेशिमथनो राधामुखेन्दूदये जीवज्जीवसमः करोतु कुशलं श्रीकृष्णदेवः प्रभुः॥३॥ १. 'वेदाकाशमुनीन्दु(१७०४)संमितशके-' इति ग्रन्थान्तिमपद्यतो वैक्रमे शरद १८३९(%A.D. 1788) श्रावणशुक्लदशमीगुरुवासरे इमं ग्रन्थं रचि तवान्छीकृष्णानन्दकवीन्द्र इत्यवगम्यते.