पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। स्वाध्यायैश्च श्रमणकृतिनां तर्कचर्चाविचारैः शब्दाद्वैते भवति भवता स्थैर्यमानस्य तत्र ।। १२४ ॥ विज्ञप्तिर्नो यदपि भवता दुष्करानाप्तपुंसा पार्थे किं चामरहिमकराः पाठकास्ते सगोत्राः । संवीक्ष्यैवावसरमुचितं तत्र वाच्यं तथापि नेतारो हि ध्रुवमवसरे प्रेक्षिणि प्रीतचित्ताः ॥ १२५ ॥ स्थित्वा तस्माद्विजनसमये श्रीगुरोः पादपद्मं स्पृष्ट्या स्वच्छैर्हिमकरकरैर्विज्ञ विज्ञप्यमेवम् । शिष्योऽणीयान्विनयविजयो द्वादशावर्तभाजा विज्ञप्ति व्याहरति महता वन्दनेनाभिवन्द्यम् ॥ १२६ ।। यच्छीपूज्यक्रमयुगमिलादुर्गमध्ये नतोऽहं प्रागासं नोयकृतिमिव तद्विस्मरामि क्षणार्धम् । श्रीतातानां यदुरुकृपया भाषणं स्मर्यमाणं सर्वाङ्गीणं सपदि पुलकोद्भेदमाविप्करोति ॥ १२७ ॥ तुप्यत्युल्लासयति करणान्युल्लसन्त्येव भूयो भूयो गच्छत्युपगुरुपदं गाढमुत्कण्ठते च । बाष्पक्लिन्ने सृजति नयने गद्दान्कण्ठनादा- नेतच्चेतः प्रणयरसतश्चेष्टते नैकधामे ॥ १२८ ॥ निद्रादोषो जगति विदितो जागरश्चाप्रमादः संप्रत्येतन्मम तु हृदये वैपरीत्येन भाति । निद्रां याते गुणमनुगुणं दर्शनं वो ददानां जागर्यां च प्रगुणमगुणं तत्र विघ्नं सृजन्तीम् ॥ १२९ ॥