पृष्ठम्:रामकथामञ्जरी.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सा दह्यमाना कोपेन मन्थरा पापदर्शिनी । शयानामेव कैकेयीमिदं वचनमब्रवीत् ॥२४॥ "उत्तिष्ठ मूढे किं शेषे भयं त्वामभि वर्तते । उपप्लुतमघौघेन नात्मानमवबुध्यसे । चलं हि तव सौभाग्यं नद्याः स्रोत इवष्णगे ॥२५॥ अक्षयं सुमहद्देवि प्रवृत्तं त्वद्विनाशनम् । राम दशरथो राजा यौवराज्येऽभिषेक्ष्यति" ॥२६॥ मन्थराया वचः श्रुत्वा शयनात् सा शुभानना । उत्तस्थौ हर्ष-संपूर्णा चन्द्रलेखेद शारदी "रामे वा भरते वाहं विशेष नापलक्षये ॥२७॥ कैकेय्या वचनं श्रुत्वा मन्थरा भुश-दुःखिता । दीर्घमुद्रणं च निश्वस्य कैकेयीं पुनरवीत् ॥२८॥ 'भविता राघवो साजा राघवस्यानु यः सुतः । राजवंशात्तु भरतः कैकेयि, परिहास्यते ॥२९॥ ( पापदर्शिनी) पाप-कर्मण उपदेष्ट्री । अस्या उत्थाने कालोक्षेपो भविष्यतीति शयानामेव । (अभिवर्तते ) अभितः परितः वर्तते वेष्टयतीत्यर्थः । ( उपप्लुतमघौघेन ) दुःखसमूहेन व्याप्तम् । ( अक्षयम् ) अशक्यप्रतीकारम् । ( परिहास्यते ) हीनो भविष्यति ।