पृष्ठम्:रामकथामञ्जरी.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दर्पान्निराकृता पूर्वं त्वया सौभाग्यवत्तथा । राम-माता सपत्नी ते कथं वैरं न यातयेत् ॥३०॥ एवमुक्त्वा तु कैकेयी क्रोधेन ज्वलितानना । दीर्घमुष्णं च निःश्वस्य मन्थरामिदमब्रवीत् ॥३१॥ अद्य राम मितः क्षिप्रं वनं प्रस्थापयाम्यहम् यौवराज्ये च भरत क्षिप्रमेवामिषेचये ॥३२॥ अथ वै रुषिता देवी सम्यक कृत्वा विनिश्चयम् । क्रोधागारे निपतिता सा वभौ मलिनाम्बरा ॥३३॥ आज्ञाप्य तु महाराजा राघवस्याभिषेचनम् । उपस्थान मनुज्ञाप्य प्रविवेश निकेतनम् ॥३४॥ कैकेय्या दशरथाद्वरप्राप्तिः स कैकेय्या गृह श्रेष्ठ प्रविवेश महायशाः । पाण्डुरानमिवाकाशं राहु-युक्त निशाकरः ॥३५॥ तत्र तां पतितां भूमौ शयानामतथोचिताम् प्रतप्त इव दुःखेन सोऽपश्यज्जगती-पतिः । सौभाग्यवत्तया पति-वात्सल्यतया (वैरं न यातयेत् वैरनिर्यातनं न कुर्यात् । (रूषितः । क्रुद्धः । ( मलिनाम्बरा ) मलिनवस्त्रधरा उपस्थान मनुज्ञाप्य ) उपस्थिताना मन्त्रि पुरोहितादीनां स्व-स्व-गृह-गमनमनुज्ञाप्य । ( पाण्डुराभ्रेत्यादि) रुष्ट कैकेयीयुकत्तया, सुधा धवलतया च पाण्डुरानयुक्तत्वमाकाशस्य !(अयाचिताम् । तथा शयनानुनिताम् ।