एतत् पृष्ठम् परिष्कृतम् अस्ति
९०
महार्थमञ्जरी
श्रीपीठपंचवाहो नेत्रत्रयं वृन्दचक्रम् - इति यानि चक्राणि तानि स्मरत, परामृशत । श्रीगुरु नाथानां च पंक्तिं स्मरत, गुरुमण्डलद्योतनाय पुनरपि स्मरत इत्युक्तम् , सृष्टिप्रमुखाश्च पंचश क्तीश्च स्मरत याः सृष्टिस्थितिसंहारानाख्यामा सेति भिद्यन्ते ॥ ४१॥
अथ श्रीचक्रं क्रमेण उन्मुद्रयिष्यन् आदौ पीठनिकेतनादिनेत्रत्रितयतां विभागद्वारा पर्या लोचयति
पीठे नव कलाः
पञ्चैव पञ्चवाहपदव्याम् ।
सप्तदश भालनेत्रे
द्वादश षोडश चान्यनेत्रयोः॥४२॥
२८ श्रीचक्रमिति, उक्तं च
'तच्छक्तिपञ्चकं सृष्टया लयेनाग्निचतुष्टयम् । पजशक्तिचतुर्वह्निसंयोगाञ्चक्रसंभवः ॥'
इति ।
सर्वेषु संगृहीतमूलादर्शपुस्तकेषु 'पीठे नत्र' इत्यस्य ४२ पधस्य मूल- प्राकृतपद्यं न दृश्यते, तसात् संस्कृतछायापद्यमाश्रमेवोपन्यस्तं ज्ञेयम् ।