पृष्ठम्:रामकथामञ्जरी.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

यज्ञोपसदनं ब्रह्मन् प्राप्तोऽसि मुनिभिस्तहः ॥५०॥ इत्युक्त्वा मुनि-शार्दूलं प्रहृष्ट-वदनस्तदा । पुनस्तं परिपप्रच्छ प्राञ्जलिः प्रणतो नृपः ॥५१॥ जनकाय रामागमन-कारणवर्णनम् इमौ कुमारौ भद्रं ते देव-तुल्य-पराक्रमौ । काकपक्ष-धरौ वीरौ श्रोतुमिच्छामि तत्त्वतः ॥५२॥ तस्य तद्वचनं श्रुत्वा जनकस्य महात्मनः न्यवेदयन्महात्मानौ पुत्रौ दशरथस्य तौ। महाधनुषि जिज्ञासां कर्तुमागमन तथा ॥५३॥ एवमुक्तस्तु जनकः प्रत्युवाच महामुनिम् । "इदं धनुर्वरं ब्रह्मन् जनकैरभिपूजितम् ॥५४॥ राजभिश्च महावीरशक्तः पूरित पुरा । दर्शयैतन्महाभाग अनयो राजपुत्रयोः ।।५।। विश्वामित्रः सरांमस्तु श्रुत्वा जनक-भाषितम् । 'वत्स राम, धनुः पश्य' इति राघवमब्रवीत् ॥५६॥ महर्षेर्वचनाद्रामो यत्र तिष्ठति तद्धनुः । यज्ञोपसदनम् ) यज्ञस्थानम् । ( महाधनुषि जिज्ञासाम् ) रामस्य धनुर्विषयां दिदृक्षाम् । पुरा पूरितुमशक्तै राजभिश्चाभिपूजितम् (इत्यन्वयः