पृष्ठम्:रामकथामञ्जरी.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सम्पूर्णं योजन-शतं क्षिप्तः सागर-संप्लवे ॥४३॥ सुबाहु-मरणम् विगृह्य सुमहच्चास्त्रमाग्नेयं रघु-नन्दनः । सुवाहूरसि चिक्षेप स विद्धः प्रापतद्भुवि ।।४४॥ विश्वामित्रस्य मिथिला-प्रस्थानम् अध यज्ञे समाप्ते तु विश्वामित्रो महामुनिः । निरीतिका दिशा दृष्ट वा काकुत्स्थमिदमब्रवीत् ॥४५॥ मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति । यज्ञः परम-धर्मिष्ठस्तत्र यास्यामहे वयम् ॥४६॥ त्वं चैव नर-शार्दूल सहास्माभिर्गमिष्यसि । अद्भुतं धनुरत्नं च तत्र तद्रष्टुमईसि" एवमुक्त्वा मुनि-बरः प्रस्थानमकरोत्तदा ॥४७॥ ततः प्रागुत्तरी गत्वा रामः सौमित्रिणा सह । विश्वामित्रं पुरस्कृत्य यज्ञ-वाटभुपागमत् ।।४८॥ विश्वामित्र मनुयाप्तं श्रुत्वा स नृपतिस्तदा। प्रत्युज्जगाम सहसा विनयेन समन्विताः ॥४९॥ अथ राजा मुनि-श्रेष्ठं कृताञ्जलिरभाषत । "धन्योऽस्म्यनुगृहीतोऽस्मि यस्य से मुनि-पुङ्गवः । ( सागर-संप्लवे) समुद्रमध्ये । (निरीतिकाः) वाधारहिताः ।मैथिलस्य ) मिथिलाधिपतेः । ( परमधर्मिष्ठः) अतिशय धर्मो-त्पादकः । ( याज्ञवाटम् ) यज्ञशालाम् ।