पृष्ठम्:रामकथामञ्जरी.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मञ्जूषां तामपावृत्य दृष्ट्वा धनुरथाब्रवीत् । इदं धनुर्वरं ब्रह्मन् संस्पृशामीह पाणिना" ।।७।। चतुर्भः लीलया स धनुर्मध्ये जग्राह वचनान्मुनेः । आरोपयित्वा मौर्वीञ्च पूरयामास तद्धनुः ॥५८ ॥ तद्बभञ्ज धनुर्मध्ये नरश्रेष्ठो महायशाः। तस्य शब्दो महानासीन्निर्घात-सम-निःस्वनः ||५९।। निपेतुश्च नराः सर्वे तेन शब्देन माहिताः । वर्जयित्वा मुनिवर राजानं ती च राघयो ।॥३०॥ प्रत्याश्वस्ते जने तस्मिन् राजा विगत-साध्वसः । उवाच प्राञ्जलिवाक्यं वाक्यज्ञो मुनि-पुङ्गवम् ।।६।। भगवन् दृष्ट्वीर्यो मे रामो दशरथात्मजः । अत्यद्भुतमचिन्त्यञ्च न तर्कित मिदं मया ॥१२॥ जनकानां कुले कीर्तिमाहरिष्यति में सुता। सीता भर्तारमासाद्य रामं दशरथात्मजम् ॥६३ ॥ भवताऽनुमते ब्रह्मन् शीघ्रं गच्छन्तु मन्त्रिणः ६ अपावृत्य ) गतापवरणोकृत्य । (लोलया) अनायासेना (निर्घात-सम-निस्वनः) अशनि-ध्वनि-समः शब्दः । (विगतसाध्वसः रामेण धनुष्यनारोपिते कन्याऽविवाहता अवस्थास्यतीति या भीः सा गता । (हरिष्यति ) सम्पादयिष्यति । भवतोऽनुनते भवदनुमत्या