पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२० काव्यमाला। हस्तिपालकनृपालपालिता पूर्णं पूरयतु मन्मनःशुचा । यत्र दर्श इव चन्द्रमा भवानस्तमाप भवतापहापनः ॥ ३ ॥ ऊर्जदर्शनिशि दर्शिताद्वयास्तत्र पुर्यखिलवर्णजाः प्रजाः । त्वन्महोदयमहीतयाधुनाप्युत्सवं विदधतेऽनुवत्सरम् ॥ ४ ॥ यैर्ध्वनिस्तव पपे श्रवःपुटैः षोडशप्रहरदेशनाविधौ । तान्निवेश्य धुरि धन्यताजुषां रेखया न खलु सृप्यतेऽन्यतः ॥ ५ ॥ पुण्यपापफलपाकवर्णनामध्यमध्ययनपति युक्छतम् । व्याकृथाः स्फुटमपृष्ट पट्कृतिव्याकृतीश्च परिषत्पुरस्तदा ॥ ६ ॥ जीवति त्वयि जिनेन्द्रभूतिना त्वत्प्रणामविधिभङ्गभीरुणा । नूनमैष्यत न देव केवलज्ञानसंपदनुरागभागपि ॥ ७ ॥ यद्विधेयमुपदिश्य गौतमः प्रैषि भक्तिभृदपि त्वयान्यतः । रोगिणः कटुकजायुपानवज्यायसेऽस्य चक्लुपे गुणाय तत् ॥ ८॥ त्वदिक्ष्ववतरत्सुरावलीयानदेहमणिभूषणांशुभिः । सा कुहूरजनिरस्ततामसा पूर्णिमानिशमुपाहसद्भुवम् ॥ ९ ॥ निर्वृते त्वयि विलोक्य विष्टपं ध्वान्तपूरपरिपूरितोदरम् । रोदयन्त इव रोदसीं प्रतिशुद्धरेण रुरुदुः पुरंदराः ॥ १० ॥ वह्निवायुजलदेश्वरैः सुरैतैलेपर्णिककृतासंस्कृतेः। भूतिमात्रमपि भूतिधाम ते येऽस्पृशन्बत न तान्रजोऽस्पृशत् ॥ ११॥ भक्तितो महितुमीश वासवास्तावकीनहनुसंग्रहं व्यधुः । नूनमक्षविजयेन तावकानुग्रहेण हनुमत्त्वमिच्छवः ॥ १२ ॥ कुग्रहा न तव जातु शासन वीर बाधितुमलंभविष्यवः । एककः स खलु मसकग्रहो बाधते भवदुपेक्षितस्तदा ॥ १३ ॥ जग्मुषि त्वयि शिवं नराधिपातं क्षणं गृहिणीनबोधयन् (1)। ये बभुः कुनयकाननषस्त्वत्प्रतापशिखिनः कणा इव ॥ १४ ॥ यन्न कश्चन मुनिस्त्वया समं मुक्तिमायदितरैर्जिनैरिव । दुषमासमयमावलिङ्गिनां व्याञ्जि तेन गुरुनिर्व्यपेक्षता ॥ १५॥ १. जायुरौषधम् २..तैलपर्णिकं चन्दनविशेषा.