पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीवीरनिर्वाणकल्याणकस्तवः । तव तनुरुचिसालं नम्रमूर्धा जनोऽयं प्रतिफलितमसक्तं स्वे ललाटे विचिन्त्य । मरकतदलनीलध्यानसिद्धिं व्यपोढ- श्रममुपलभते ही लोभऋद्धेर्निदानम् ।। ९ ॥ सकलकुशलसंपद्वीरुधां वारिवाहः प्रचितदुरितकक्षपक्षये हव्यवाहः । कमठधरणपद्मापार्श्वयक्षश्चिराय त्वमचिरहितपार्थः पार्थतीर्थेश नन्याः ॥ १० ॥ सफलय फलवर्धिचैत्यलक्ष्मीवतंस त्रिजगदभयदातर्मङ्क्षु नः काङ्कितानि । स्तवनमवनमेतचेतसस्तावकीनं विलसतु रसनाने चातुरीचञ्चुवाचाम् ॥ ११ ॥ नन्दर्तुज्वलनक्षपाकर(१३६९)मिते संवत्सरे वैक्रमे राधस्याधिशिती त्रयोदशिबुधे संघेन साधं सुधीः । यात्रायै फलवर्धिकामुपगतः स्तोत्रं तवेदं प्रभो श्रीमत्पार्श्व जिनप्रभो मुनिपतिः संसूत्रयामासिवान् ॥ १२ ॥ इति श्रीजिनप्रभसूरिविरचितः पार्श्वस्तवः ।

जिनप्रभसूरिविरचितः श्रीवीरनिर्वाणकल्याणकस्तवः। श्रीसिद्धार्थनरेन्द्रवंश कमलाशृङ्गारचूडामणे- र्भव्यानां दुरपोहमोहतिमिर प्रोज्जासनेहर्मणेः । कुर्वे किंचन काञ्चनोज्वलरुचेनिर्वाणकल्याणक- स्तोत्रं गोत्रभिदर्चनीयचरणाम्भोजस्य वीरप्रभोः ॥१॥ प्राप्य देवशरदां द्विसप्तति शीतगौ पवनदेवतळेगे । तामुपायत रसेन (?) कार्तिकामावसी निशि शिवश्रियं भवान् ॥२॥