पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शृङ्गारामृतलहरी । १६१

हितकारिण्यपि प्रियतमे अहितकारिण्यधमा । एषैवाकारणकोपना चण्डीत्यभिधीयते । यथा--- नान्यां पश्यति यो हि चित्तकुमुदस्यानन्दसंदोहदां त्वामिन्दीवरसुन्दराक्षि मनुते पीयूषरश्मेः कलाम् । तस्मिंल्लोचनमार्गमागतवति प्रेयस्यनागस्यपि व्यर्थं विद्रुमभङ्गभङ्गिसहशा क्रूरे दृशा क्रुध्यसि ॥'

प्रत्येकमासां त्रयो भेदा ग्रन्थविस्तरभयान्नोदाहृता ग्रन्थान्तरादुन्नेयाः । आसां साहित्यः सखी दूती चटी चेति । दास्यादीनामत्रैवान्तर्भावः । स्वयं दूत्यास्तु नायिकात्वेन सहायत्वाभावात् वाग्विदग्धायामन्तर्भाव इत्यपरे । तत्र पार्श्वचारित्वे सति विश्वासकारिणी सखी । तस्याश्च मण्डनशिक्षोपालम्भपरिहासादीनि कर्माणि । मण्डनं यथा--- 'निसर्गनीलोत्पलकान्तिहारि विडम्बये कज्जलतः किमक्षि । इत्थं सखीं मण्डनतः पराचीं साचीकृतास्या सुमुखी न्यविक्षत् ॥'

शिक्षा यथा--- 'यासि विकर्तनसूनोस्तटभुवि वंशीस्वनं श्रोतुम् । किंतु सरन्ति सरंहो वनिताधरपानलोलुपा मधुपाः ॥'

उपालम्भो यथा- 'तव सुभग सहस्रं सन्ति पङ्केरूहाक्ष्यः प्रणयतरलचेतास्त्वं ततो नापराधः स्मितसहचरतिर्यग्भ्रूविभङ्गप्रणाली दिशति सहचरीणां पञ्चतां पङ्कजाक्ष्याः ॥'

परिहासो यथा--- 'आर्यावर्तस्तव हृदि मुक्ताहारः स्थितोऽस्त्ययं मुक्तौ । हिमविन्ध्यशैलयोरिव कुचयोरन्तः करेण वा कस्य ॥'

११ चतुर्दशगु.