पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६२ काव्यमाला ।

सख्याः परिहासवत्प्रियाया अपि परिहासो यथा----- 'निजोरसि प्रेयसि सस्मितेऽस्मिन्हस्तं पुरस्तन्वति पङ्कजाक्ष्याः । संबद्धमुष्ट्याथ तयापि नूनं सहासमङ्गुष्ठनटोऽभ्यनर्ति ॥'

प्रियापरिहासवत् प्रियस्यापि परिहासः । स यथा- 'धन्येन चामीकरशङ्करोऽयमभ्यर्चितः सुन्दरि किंशुकेन । इति स्वदत्तं नखलक्ष्म कान्ते स्तुवत्यसावानमिताननासीत् ॥'

दूत्यव्यापारपारङ्गमा दूती । साच पत्रहरत्वसंदेशहरत्वनिसृष्टार्थत्वधर्मैस्त्रिधा । निसृष्टार्थत्वलक्षणमुक्तं भरतेन--'स्त्रियः पुंसोऽथ वा ज्ञात्वानुरागं स्वमनीषया । साधयेत्कार्यशेषं या निसृष्टार्थेति तां विदुः ॥' तस्यास्तु विरहावस्थानिवेदनं संघट्टनं चेति कर्म । उपालम्भोऽपि दूतीकर्मेत्येके । तस्य विरहावस्थाकथनेऽन्तर्भाव इत्यन्ये । तत्र विरहकथनं यथा- 'त्वद्विश्लेषे मृगाङ्कं पिकरजितकुहूभाषितैर्भीषयन्ती मूर्छत्येवाब्जपत्रप्रतिभटनयना हन्त तेषां रुतेषु । किं ब्रूमोऽकाण्ड एव प्रलपति दयित प्राणनाथेति भूयो जिह्वेति व्यस्तवाचः सुभग समुदितां तां तनुस्थामवस्थाम् ॥'

संघट्टनं यथा--- 'क्रीडामपाकुरु तिरस्कुरु भीतिमारा- दाराधये मनसिजं मदनालसाक्षि । कुञ्जोदरे दरचलन्मरुति प्रतीक्षां दामोदरस्तव तनूदरि संतनोति ॥'

अथासामलंकाराः । 'यौवने सत्त्वजाः स्त्रीणामलंकारा दशाष्ट च । भावो हासश्च हेला च त्रयस्तत्र शरीरजाः ॥