पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६० काव्यमाला ।

तादृशकर्मणः प्रवत्स्यत्यपि सत्वाद्युक्त एव प्रोषितेऽन्तर्भावः । किंच प्रवत्स्यत्पतिकायाः पृथगवस्थाभेदस्वीकारे नायिकायाश्चतुश्चत्वारिंशदधिकशतभेदापत्तिः । नचेष्टापत्तिः । अष्टाविंशत्यधिकशतभेदशंसिनः प्राचां लेखस्य वैफल्यापत्तेः । अदोपि प्राचां संपातायातसांकर्यभेदादधिकभेददर्शनात् मुग्धापरकीययोर्यथायथावस्थायोगेन न्यूनभेददर्शनाच्च । एतेन प्रवत्स्यत्पतिकामवस्थान्तरं वदतोऽष्टाविंशत्यधिकशतभेदांश्च शंसत: कस्यापि लेखः परास्तः । प्रवत्स्यत्पतिका यथा--- 'गन्तुं निश्चितचेतसि प्रियतमे नोऽजृम्भि नेत्राम्बुभि- र्बालाया न समुच्छ्रितं बहुतरं वाच्यं प्रपञ्चैरपि । दृष्ट्या कातरया रयाद्धनयुतामाकाशवीथीमथो वीक्ष्य प्राणसमान्तरा तु गमनव्यापारतो वारितम् ॥

यथा वा- 'शृण्वञ्छृण्वन्कोकिलालापलीलाः पश्यन्पश्यन्किशुकभ्रान्तभृङ्गान् । पञ्चप्राणैर्मामकीनैः सुहृद्भिः क्रीडन्भूयो नाथ याया विदेशम् ॥'

अहितेऽपि प्रेयसि हितकारिण्युत्तमा यथा--- 'शोणं नारचि लोचनं न च मनागूचे कठोरं वचो याते मय्यरबिन्दसुन्दरदृशा तल्पान्तिकं सारसि । श्रीखण्डद्रवसेकशीतलतरश्चक्रे जलार्द्रो मरु- त्सृक्वप्रान्तसुधासवर्णहसितैः प्रेमावलक्षीकृतः ॥'

हिताहितकारिणि प्रियतमे हिताहितकारिणी मध्यमा यथा- 'पर्यङ्कपर्यन्तमुपेयुषि द्राक्प्राणेश्वरे सागसि शोणभाजः । मया पदान्तस्पृशि पुण्डरीकस्पर्धिष्णवोऽस्मिन्दधिरे दृगन्ताः ॥'