ह्रींकाररूपा । ह्रींकारः रूप्यते निरूप्यते निर्देश्यत इति रूपं मन्त्रपञ्चमावयवः यस्याः सा तथा । ॐ ह्रींकाररूपायै नमः ॥
ह्रींकारनिलया। ह्रीमक्षरं निलयः गृहवदवच्छेदकं यस्याः सा तथा । स्वीयवाचकत्वारोपितवाच्यतावच्छेदकधर्मावच्छिन्नतादिसंपादनेन गृहवर्तिपुरुषवत् व्यावृत्तस्वरूपेण ज्ञापकं भवति । अन्यथा, नाम्नो वाच्यार्थे प्रवृत्त्ययोगादिति भावः । ॐ ह्रींकारनिलयायै नमः ॥
ह्रींपदप्रिया । पद्यते गम्यते ज्ञायते अनेनेति पदम्, पद्यते गम्यते प्राप्यत इति वा पदम्, ह्रीकारस्य मन्त्रावयवतया तद्देवताप्रकाशकत्वेन तस्यां शक्तत्वात्- 'शक्तं पदम्' इति तल्लक्षणत्वात् तथा प्रथमं व्याख्यानम् । हकाररेफेकारानुस्वाराणां वर्णानां समष्टिस्वरूपेण समुदायात्मकत्वात् 'वर्णसमुदायः पदम्' इत्यपि पदलक्षणवत्वमस्य घटते । पुरश्चर्यावतां स्वदेवतासाक्षात्कारद्वारा सकलपुरुषार्थप्रापकत्वात् द्वितीयव्याख्यानं तथा कृतम् । तस्मिन् प्रिया प्रीतिमतीत्यर्थः ॥ ॐ ह्रींपदप्रियायै नमः ॥
ह्रींकारबीजा । ह्रींकार एव बीजं स्ववाचकमन्त्रभाग:, 'ज्ञापकं देवतानां यत् बीजमक्षरमुच्यते' इति वचनात् ह्रीं-
पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२१९
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०५
ललितात्रिशतीभाष्यम् ।
![](http://upload.wikimedia.org/wikipedia/commons/thumb/9/94/%E0%A4%B6%E0%A4%99%E0%A5%8D%E0%A4%95%E0%A4%B0%E0%A4%BE%E0%A4%9A%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%B5%E0%A4%BF%E0%A4%B0%E0%A4%9A%E0%A4%BF%E0%A4%A4%E0%A4%BE%E0%A4%A8%E0%A4%BF_%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8B%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%BF_%28%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%A4%E0%A5%80%E0%A4%AF%E0%A4%83_%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83%29.pdf/page219-806px-%E0%A4%B6%E0%A4%99%E0%A5%8D%E0%A4%95%E0%A4%B0%E0%A4%BE%E0%A4%9A%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%B5%E0%A4%BF%E0%A4%B0%E0%A4%9A%E0%A4%BF%E0%A4%A4%E0%A4%BE%E0%A4%A8%E0%A4%BF_%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8B%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%BF_%28%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%A4%E0%A5%80%E0%A4%AF%E0%A4%83_%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83%29.pdf.jpg)