पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०४
ललितात्रिशतीभाष्यम् ।

लम्बोदरप्रसूः । लम्बोदरस्य महागणेशस्य प्रसूः जनयित्री मातेत्यर्थः । लम्बोदरं प्रसूत इति वा ॥ ॐ लम्बोदरप्रसुवे नमः ॥
 लभ्या । संसारदशायामावारकाज्ञानेन स्फुटमप्रकाशमाना सती श्रवणादिसंस्कृतान्तःकरणवृत्तावखण्डाकारज्ञानभूमिकायां प्रतिफलितस्वरूपेण विस्मृतकण्ठगतकनकभूषणवत् प्राप्तप्राप्तिरूपतया लब्धुं योग्येति तथा ॥ ॐ लभ्यायै नमः ॥
 लज्जाढ्या। लज्जया, उपलक्षणमन्तःकरणधर्माणां सर्वेषाम्, आढ्या तद्वत्त्वेन आकारवतीत्यर्थः । तिरोधानादिना अन्तर्हिता सती वरादि प्रयच्छतीति लज्जाढ्या भवतीति च उपचर्यते ॥ ॐ लज्जाढ्यायै नमः ॥
 लयवर्जिता । 'अविनाशी वा अरेऽयमात्मा अनुच्छित्तिधर्मा' इत्यादिश्रुतेः, लयो विनाशः, तेन रहिता वर्जितेत्यर्थः । इदमुपलक्षणं षड्भावविकाराणाम्, सत्यं ज्ञानमनन्तं ब्रह्म' इत्यादि श्रुतेः ॥ ॐ लयवर्जितायै नमः ॥

ह्रींकाररूपा ह्रींकारनिलया ह्रींपदप्रिया ।
ह्रींकारबीजा ह्रींकारमन्त्रा ह्रींकारलक्षणा ॥ १७ ॥