पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०६
ललितात्रिशतीभाष्यम् ।

कारस्य मायाप्रकाशकत्वेन, वटधानादिः स्वनिष्ठवृक्षाभिव्यञ्जकत्वेन कारणतया यथा बीजमित्युच्यते- सत्कार्यवादिनामव्यक्तनामरूपकारणं बीजम्, अभिव्यक्तनामरूपात्मकं पश्चाद्भावि कार्यमित्यङ्गीकारः, सकलकारणसमवधाने विशेषनामरूपवत्तया कारणस्याभिव्यक्तिरुत्पत्तिः तथा चोक्तबीजस्य मायावच्छिन्नचैतन्याभिव्यञ्जकत्वेनापि बीजत्वम्, तादृशं ह्रींकारबीजं यस्याः सा तथा ॥ ॐ ह्रींकारबीजायै नमः ॥
 ह्रींकारमन्त्रा । ह्रींकारस्य मननात् त्रायते रक्षति वाच्यवाचकयोरभेदादिति तथा । ह्रींकारघटितो मन्त्रो वा यस्याः सा इति वा तथा ॥ ॐ ह्रींकारमन्त्रायै नमः ॥
 ह्रींकारलक्षणा । हकारः शिवः, आकाशबीजत्वादाकाशवन्निर्लेपः, रेफः वह्निबीजं कार्योत्पादसंनिहितशक्तिमदीश्वरवाचकम् तथा च हकारयुक्तरेफः शुद्धचैतन्यमेव कारणतावच्छिन्नम्- इति वदति । ईकारः मन्मथबीजं तत्कारणलक्षकतया स्थितिहेतु विष्णुरूपचैतन्यमभिदधाति । अनुस्वारस्तस्मिन्नेव पदार्थे अभिन्ननिमित्तोपादाने लयं वक्ति । तथा च ह्रीमित्युक्ते जगदुत्पत्तिस्थितिलयकारणं चैतन्यं शक्त्या वाच्यार्थः प्रतीयते । तस्यैवोपाधिपरित्यागरूपलक्षणं यस्याः सेति वा तथा । ह्रीकारः लक्षणं तटस्थलक्षणं यस्याः