गाढे गर्भान्धकारे चिरमुषितमनुच्छ्वासमेकान्तदुःखे
तत्पाके भ्रश्यताधः कति कति शिशुतायातना नानुभूताः ।
अद्य त्वं पापचित्त श्रमयसि यदि वा यौवने चेतसं मां
तत्तत्कर्मापराधादुपचितमसकृजन्मदुःखं सहश्च ।। ५० ।।
सङ्गे गङ्गाशरय्वोर्नियमितमस्तोर्मन्त्रमावर्तयन्तः
कुर्वन्तो वा बनान्ते समिधमनुविधं बोधयन्तो हुताशम् ।
अन्यस्यन्तस्तपस्यां पुरमथनपुरीसंनिधौ ध्यानमन्तः
सन्तो वा साधयन्तः परमपरिचयं वासरान्तं नयन्ति ॥५१॥
श्वासेनैकेन केचित्परिणतपवना मासमेकेऽप्यथैके
वर्षार्धं वर्षमन्ये क्षणमिव यमिनोऽभ्यासलेशान्नयन्तिः ।
तसादभ्यासवश्यः पवनजयलयस्तेन चेतःस्थिरत्वं
तस्योपायेऽनपायो गुरुपदपदवीसेवनं कारणं स्यात् ॥ ५२ ॥
प्राणायामादिकर्मक्षपितदिननिशं निद्रया दूरमुक्तं
शब्दादिभ्योऽवधूतश्रवसुखकरणनामसिद्धावबोधम् ।
वेदान्ताद्वैतवादश्रवणमननतो लीनमिथ्यावभासं
पुंरत्नं यत्नसाध्या खयमिह वृणुते निर्मलाद्वैतसिद्धिः ।। ५३ ॥
कार्पण्योत्पत्तिभूमिर्गुरुसुतसुहृदां वञ्चिकापण्ययोषि-
द्वाग्देवी दैन्यवाचां पररसमधुरवादलोलाप्रजिह्वा ।
चौर्यातद्रुबीजं नय पथि कतमो विम्रमाम्बुप्रपातः
शीलापस्माररोगे विधिरकरुण का सिद्धये केह तृष्णा ॥ ५४ ।।
रम्भाहासोपहासस्त्रिदशपतिशचीसख्यसौख्यं च मुख्यं
पुण्यच्छेदे प्रमाणं तपति च रविता चन्द्रता जाड्यभूमिः ।
ताभ्यां येऽन्यक्रियेस्न्मगनचरगणाः सन्तु ते चेति गोष्ठी
शिष्टानां यत्र तस्यामुपचितमतयः कर्मणा किं विदध्मः ॥ ५५ ॥
शीतांशूष्णीषमध्ये हरिणमिषमिलल्लीलवासः शिरस्त्रे
जातः कालो जरावांश्चिरसमयपुमान्विश्वकर्मैकसाक्षी ।
पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/७८
एतत् पृष्ठम् परिष्कृतम् अस्ति
७२
काव्यमाला ।