पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७१
वैराग्यधनदशतकम् ।

 काभावः कथंचिस्फुरतुः समुदितो यत्र जातेम भूयो
 जन्मारम्भः कदाचित्परिचितपरमब्रह्मणोऽद्वैतबुद्धेः ।। ४३ ॥
 प्रीतिबन्धौ समृद्धे गतवति विपदं दुःखमेकान्ततो य-
 त्तोषस्ते तावता चेत्तमल भक्ता कानने सोऽनुभाव्यः ।
 कार्यश्चित्तप्रमोदो मधुसमयवत्कोरकश्रीसमृद्धे
 माद्यन्मातङ्गभग्ने विटपिनि नितरां दुर्विनेयो विषादः ॥ १४
 अन्तापत्संपदेषा परिणतिविरसाः कान्तयामी विलासा
 आदावन्ते वियोगे परिचयमधुरे संगमे सज्जनानाम् ।
 विद्यारत्ने प्रपन्नः स्वमतगुरुकथापक्षपातेऽभिमानो
 वस्त्वेक तत्किमास्ते परिचयसमये यस्य सर्वे समाः स्युः ॥ ४५ ॥
 यद्यर्थ त्यागहेतौ न भवति विभवस्तस्य कुत्रोपयोगः
 षड्वर्गादन्यतो वा विदधति च पदं कुन मासादयोऽपि ।
 त्यागे तात्पर्यसस्य स्थितिरिति यदि तत्कोऽपि शान्तप्रकार-
 स्तत्सर्वोपाधिशून्यैः शमविहगतरौ तत्समाधौ वसामः ॥ ४६॥
 पुण्यारम्भेण सद्यःसुरपतिनगरस्यैव पन्थाः प्रकाशः
 पापेनान्यः कृतान्तः प्रतिवसति मुखो ध्वान्तसंक्रान्तिधोरः ।
 योऽयं पन्थास्तृतीयः कतिपयपुरुषप्रस्थितिक्षीणभावो
 यात्रा तेन प्रयत्नादुभयपरिभवेनैव साध्या सुधीभिः ॥ ४७ ॥
 किं केशस्तेऽपराद्धं वसतिरपि कथं द्वेषिणी मित्र जाता
 किं पुत्रा वैरभाजा कुलजयुवतिभिर्नाशितं किं च ताभिः ।
 यत्ते तां तामक्स्त्रां चिरमिति गमिताः कामने काधिकाधी-
 र्यावच्चितं न रक्तं परपुरुषपदाद्वैतरामेण तेन ॥ ४८ ।।
 भूयो भूयस्तनुध्वं विधिमधिकधनं यज्ञवृत्तेः समन्ता-
 त्सेवध्वं वा वनान्तं परिहृतविषमा बन्धुवर्गं विहाय ।
 तीर्थे तीर्थेऽधिपर्व प्रयतत्त तपसो योण्य धर्मे यतध्वं
 यावच्चेतो न शान्तं सुखलवकणिका दुर्लभा तावदेव ॥ १९ ॥