पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

1३६ काव्यमाला । प्रवासो देशान्तरस्थितिस्तद्धेतुको यथा--- 'चैत्रे नेत्रे वितरति रुजं कन्दली भूरुहाणां सूचीवेधं, श्रवसि तनुते काकली कोकिलानाम् । सेर्ष्यं कार्श्यं दिशति विशिखैः पञ्चभिः पुष्पधन्वा तन्व्यास्तापं सृजति बिसिनीपत्रपर्यङ्कशय्या ॥'

शापो मुन्यादिकोपस्तद्धेतुको यथा कालिदासस्य-'त्वामालिख्येत्यादि ।'

तत्र शृङ्गारस्य प्रथमगणितत्वात्तदालम्बनभूतत्वान्नायका निरूप्यन्ते । ननु शृङ्गारस्य कथं प्राथमिकत्वमिति चेत् न । 'शृङ्गारवीरकरुण' इत्यादि भरतोक्तेरिति गृहाण । न च तेनोक्तं कथमस्य तत्त्वं वैपरीत्ये किं नियामकमिति वाच्यम् । निखिलादिभूतस्य तत्रभगवतो विष्णोरस्याधिदैवतत्वात् । ननु तदालम्बनभूतत्वं तु नायिकानामपि; तत्कुत एतेषामादावमिधानमिति चेत् न । सूचीकटाहन्यायेन तेषां प्रथमनिरूपणेऽपि न क्षतिः । ते तु त्रिविधाः पत्युपपतिवैशिकभेदात् । तत्र विधिवत्पाणिग्राहित्वे सति प्रेमवान्पतिः । सत्यन्तकृत्यं स्पष्टम् । विधिवत्पाणिग्राहिणि परमहिलासक्ते चोपपतावतिव्याप्तिनिरासाय विशेष्यदलम् । अनारतपरदारविहारी उपपतिः । बहुलवेश्योपभोगनिरतो वैशिकः।

क्रमेणोदाहरणानि- 'चण्डं चण्डगभस्ते-मा किर किरणं समीर चर मन्दम् । गन्तुं हतकेन मया समं कृशाङ्गी समीहते विपिनम् ॥' 'मुषितरदपदं नकारशोभि श्लथकुसुमाकुलकुन्तलं नितान्तम् । प्रणयभयविलोललोचनान्तं पुरसुदृशां परिचुम्बनं समीहे ॥'