पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शृङ्गारामृतलहरी । १३५ तदुक्तम्- 'भावो यदा रतिर्नाम प्रकर्षमधिगच्छति । नाधिगच्छति चाभीमं विप्रलम्भस्तदोच्यते ॥'

'संभोगेऽतिव्याप्तिवारणाय विशेष्यदलं, सत्यन्तं च करुणेऽतिव्याप्तिवारणाय । वस्तुतस्तु सत्यन्तपदादानेऽपि प्राप्तियोग्यत्वस्याभीष्टविशेषणात् 'आशाबन्धः श्लथीभूतश्चिन्तादिव्यभिचारकः । विरहाकरुणाभीष्ट' इत्युक्ते करुणेऽभीष्टस्य प्राप्तियोग्यत्वाभावान्न करुणेऽतिव्याप्तिः । सच अभिलाषविरहेर्ष्याप्रवासशापहेतुकः पञ्चधा । तत्र यूनोरन्योन्यप्रातीच्छा अमिलाषः ।

यथा--- 'दरविकसितपुण्डरीकपर्षन्निबिडविडम्बनदक्षमक्षि तस्याः । अलसवलितमुल्लसत्प्रमोदं कथमपि मन्मथमन्थरं मयि स्यात् ॥'

देशैक्येऽपि गुर्वादिपारतन्त्र्यान्निरोधो विरहः । तज्जो यथा---

'केनापि त्वयि कारणेन सुतनोर्नोपागते देहली- मद्यासीद्यदकाण्ड एव चरितं तस्याः किमाचक्ष्महे । पाटीरैर्गरलायितं सुमनसां वृन्दैः स्फुलिङ्गायितं चन्द्रेणापि दिवाकयितमहो हारैर्भुजङ्गायितम् ॥'

यूनोः प्रेमानुबन्धाद्विनाकारणे कोप ईर्ष्या स च मानः । 'अस्तस्रस्तो गगनसरसीसारसः शीतरश्मि- स्तारा हारा अपि विगलिताः कण्टतो यामवत्याः । जज्ञे चैतन्नमुचिरिपुदिक्चुम्बि मार्तण्डबिम्बं मानग्रन्थिस्तदापि यतते त्वां न मोक्तुं कृशाङ्गि ॥'