पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शृङ्गारामृतलहरी । १३७ 'मन्दाक्षावरणव्ययप्रकटितप्रेमप्रपञ्चं मदा- घूर्णल्लोचनमुन्मदस्तनतटं साटोपहासं मुहुः । आशासे स्फुटहावभावमधुरं हालाविलासस्फुर- द्वाक्यं वारमृगीदृशां प्रतिदिनं रम्यं परीरम्भणम् ॥'

तेतु प्रत्येकमनुकूलशठधृष्टदक्षिणभेदाच्चतुर्धा । परंतु पत्यावनुकूलस्योपपत्तौ शठत्वस्य वैशिके शठत्वादीनां नैयत्यमितरेषां गौणता । तत्र नायिकानुरक्तो नायक अनुकूलः । यथा---

तनवै नलिनीदलैः समीरं-------------------------। रचये निचयेन पल्लवानां हिमकल्पं तव किं कृशाङ्गि तल्पम् ॥

कामिनीविषयककपटपटुः शठः ।

यथा---- "एतत्ते हृदि लक्ष्म सुन्दरि भृशं सामुद्रिकं दृश्यते श्रेयोऽह्नाय किमप्यनेन भविता वामाक्षि संलक्ष्यते । धूर्तः पाणितलेन पङ्कजदृशो वक्षःस्थलीमामृशन् साकूतं मुपितस्मितं कुचतटीमामर्दयंस्तुष्यति ॥'

तर्जनेऽपि प्रश्रयवान्धृष्टः । तदुक्तम्-

'कृतागा अपि निःशङ्कस्तर्जितोऽपि न लज्जितः । भूयः प्रश्रयवानेति धृष्टः स परिकीर्तितः ॥'

यथा- 'निषिद्धोऽसौ वाग्भिर्गरलकलुषाभिः सखि मुहु- र्मुहुर्दृष्टः कोपारुणतरलया हन्त कुदृशा । पराचीमूतायाः शिथिलयति बन्धं मम पुन- र्विविक्तं कञ्चुक्याः किमथ करवै धृष्टतरुणैः(णः) ॥'