पुटमेतत् सुपुष्टितम्
१७०
त्रिपुरसुन्दरीवेदपादस्तोत्रम् ।
षोढान्यासादिदेवैश्च सेविता चक्रमध्यगा |
कामेशमहिषी भूयः षोडशी शर्म यच्छतु ॥ २८ ॥
शान्तो दान्तो देशिकेन्द्रं प्रणम्य
तस्यादेशात्तारकं मन्त्रतत्त्वम् ।
जानीते चेदम्ब धन्य: समानं
नात: परं वेदितव्यं हि किंचित् ॥ २९ ॥
त्वमेव कारणं कार्यं क्रिया ज्ञानं त्वमेव च ।
त्वामम्ब न विना किंचित्त्वयि सर्वं प्रतिष्ठितम् ।। ३० ॥
परागमद्रीन्द्रसुते तवाङ्घ्रि-
सरोजयोरम्ब दधामि मूर्ध्ना ।
अलंकृतं वेदवधूशिरोभि-
र्यतो जातो भुवनानि विश्वा ॥ ३१ ॥
दुष्टान्दैत्यान्हन्तुकामां महर्षी-
न्शिष्टानन्यान्पातुकामां कराब्जैः ।
अष्टाभिस्त्वां सायुधैर्भासमानां
दुर्गां देवीं शरणमहं प्रपद्ये ॥ ३२ ॥