पुटमेतत् सुपुष्टितम्
१३९
त्रिपुरसुन्दरीवेदपादस्तोत्रम् ।
अर्धोन्मीलद्यौवनोद्दामदर्पो
दिव्याकल्पैरर्पयन्ती मयूखान् ।
देवि ध्यात्वा त्वां पुरा कैटभारि-
र्विश्वं बिभर्ति भुवनस्य नाभिः ॥ २३ ॥
कल्हारश्रीमञ्जरीपुञ्जरीतिं
धिक्कुर्वन्तीमम्ब ते पाटलिम्ना ।
मूर्तिं ध्यात्वा शाश्वती भूतिमाय-
न्निन्द्रो राजा जगतो य ईशे ॥ २४ ॥
देवतान्तरमन्त्रौघजपश्रीफलभूतया !
जापकस्तव देव्यन्ते विद्यया विन्दतेऽमृतम् ॥ २५ ॥
पुंस्कोकिलकलकाणकोमलालापशालिनि ।
भद्राणि कुरु मे मातर्दुरितानि परासुव ॥ २६ ।।
अन्तेवासिन्नस्ति चेत्ते मुमुक्षा
वक्ष्ये युक्तिं मुक्तसर्वैषणः सन् ।
सद्भ्यः साक्षात्सुन्दरी ज्ञप्तिरूपां
श्रद्धाभक्तिध्यानयोगादवेहि ॥ २७ ॥