पुटमेतत् सुपुष्टितम्
१८१
त्रिपुरसुन्दरीवेदपादस्तोत्रम् ।
देवि सर्वानवद्याङ्गि त्वामनादृत्य ये क्रियाः ।
कुर्वन्ति निष्फलास्तेषामदुग्धा इव धेनवः ॥ ३३ ॥
नाहं मन्ये दैवतं मान्यमन्य-
त्वत्पादाब्जादम्बिके कुम्भजाद्या: ।
ये ध्यातारो भक्तिसंशुद्धचित्ता:
परामृतात्परिमुच्यन्ति सर्वे ।। ३४ ॥
कुर्वाणोऽपि दुरारम्भांस्तव नामानि शांभवि ।
प्रजपन्नेति मायान्तमति मृत्युं तराम्यहम् ॥ ३५ ॥
कल्याणि त्वं कुन्दहासप्रकाशै-
रन्तर्ध्वान्तं नाशयन्ती क्षणेन ।
हन्तास्माकं ध्यायतां त्वत्पदाब्ज-
मुच्चतिष्ठ महते सौभगाय ।। ३६ ।।
तितीर्षया भवाम्भोधेर्हयग्रीवादयः पुरा ।
अप्रमत्ता भवत्पूजां सुविद्वाँसो वितेनिरे ॥ ३७॥
मद्वश्या ये दुराचारा ये च सन्मार्गगामिनः ।
भवत्या: कृपया सर्वे सुवर्यन्तु यजमानाः ॥ ३८ ॥