परिहृतपरापवादः परिमितवाक्परहितासक्तः ।
परिणतमतिपरिचयापरः पुरः सरति साधुचरितानाम् ॥ २५ ॥
प्राचां पथा प्रयत्नादाचर संचारमन्यतो मा गाः।
तत्रापवादपङ्के निपतति तं के नयन्तु बहिः ॥२६॥
यद्यधिरजनि शयानः सद्मनि सुषमीहते सुमतिः ।
योषामिव परपुरुषापवादपरुषां गिरं त्यजतु ॥ २७ ॥
निपुणं निगूढमेतच्चेतसि निर्व्यूढमाकलयेः ॥२८॥
स्थालीव स्वलस्तापादुद्वमति रसेन पिहित...मन्तः।
अन्तः कोटरगुप्तैः सहैव शाखीव दह्यते सुजनः ॥ २९ ॥
इदमस्खलितं धारय वारय परुषाक्षरा वाचः ।
एकः सकलजनानां जगति रिपुः परुषवाक्पुरुषः ॥ ३०॥
परभृन्मौखर्यभिया पोषकमप्यात्मघोषमुत्सृजति ।
अतिमुखर एष सहते मुहुरपि दण्डाहति पटहः ॥ ३१ ॥
परमुखरत्वज्वलितः करोषि मौखर्यमेषोऽपि ।
पुनरपि तदेव कर्ता कः परिहर्तानवस्थितिं युवयोः ॥ ३२ ॥
सुखमुखमिति यदि न त्वं परिहरसि परापवादपारुष्यम् ।
द्विगुणितहेतुः स कथं तवापवादानिवारयतु वाचम् ॥ ३३ ॥
परिहर चापलमुच्चैः पदसंस्थितिसुस्थिरे मनसि ।
चिरमेधते न चपलश्चपलैव निदर्शनं तत्र ॥ ३४ ॥
पुण्यानि सततमर्जय परिवर्जय पौरुषेषु वैमुख्यम् ।
पौरुषपुण्यविहीनः पुरुषो लोकद्वये हीनः ॥ ३५ ॥
परिचर मातरपितरावाचर नितरामभीप्सितामनयोः ।
संस्मृत्य जननजीवनलालनपरिपालनप्रणयम् ॥ ३६ ॥
परवित्तविमुखमन्तः परदारनिरीक्षणाक्षमं चक्षुः ।
हरिपरिचितस्य पुंसः परदूषणदूरवासिनी रसना ॥ ३७ ॥