पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
हरिहरसुभषितम्


विगुणा बहवोऽपि गुणा विना विनीतेन चेतसा पुंसः ।
निशितैरलं शरशतैरनुपेतपतञ्जिके धनुषि ॥ १२ ॥

भूषणमेव न कुरुते दूषणमप्यावृणोति विनयोऽयम् ।
भूषयति रुचिरमंशुकमङ्गान्यपि तानि किं न गोपयति ॥ १३ ॥

पुंसो विभूषणाय प्रसरत्येकोऽपि कोऽपि गुणः ।
वसुधावलयमलंकृतमनवरतगुणेन पुरुषरत्नेन ॥ १४ ॥

जननीजठरव्याधिबन्धूनामाधिरपगुणः पुरुषः ।
एतत्कृतो धरित्र्या भारो हरिणाप्यनपनेयः ॥ १५ ॥

यदि गुणमिच्छसि फलिनं कुलमकलङ्कं मनो निरातङ्कम् ।
अतिदूराद्गुरुदोषं परिवर्जय दुर्जनेषु परितोषम् ॥ १६ ॥

पिशुनप्रणयी पुरुषो यदि न विनश्यत्यवश्यमेति भयम् ।
यदि संनिहितं दहनो न दहति संतापयत्येव ॥ १७ ॥

परपरितापनकुतुकी गणयति नात्मीयमपि तापम् ।
परहतिहेतोः पिशुनः संदंश इव स्वपीडनं सहते ॥ १८ ॥

करलालितोऽपि दहति ज्वलति व्यजनेन वीज्यमानोऽपि ।
दहन इवानिर्वाणं न विमुञ्चत्युष्णतां पिशुनः ॥ १९ ॥ :

वक्रं विचरन्नहिरिव विहितजगलाणचर्वणः पिशुनः ।
मुदितः क्वचिदुपलब्धे परकीयच्छिद्र एव निद्राति ॥ २० ॥

परिहृतमसाधुवाचा प्राचामाचारगोचरं वर्त्म ।
सज्जनसमाजसेवनमेव नरेभ्यो निवेदयति ॥ २१ ॥

मार्जितपरमालिन्यस्तप्तोऽपि मनागनन्तरं शिशिरः ।
जलमिव सुजनः स्नेहं विनिहितममितः प्रसारयति ॥ २२ ॥

उपनीतनीतिनौकः संसारविकारवारिवन्यासु ।
सत्पुरुषकर्णधारस्तारयति बहूञ्जनानेकः ॥ २३ ॥

परहितहेतोर्विहिताः सुहृदः स्वहिताहितान्यजानन्तः।
उपविन्यस्तपदानपि नौका इव तारयन्ति परान् ॥ २४ ॥