लक्षैर्बन्धकितं बध्वा भारवीयं सुभाषितम् ।
प्रक्रान्तपुत्रहत्याघं निशि माघं न्यवारयत् ॥ ४ ॥
सुभाषितमधून्येव जनो यद्यवमन्यते ।
रसनामात्मनः केन रसेनोपकरिष्यति ॥ ५ ॥
सुभाषितामृतास्वादसुखसंमुखचेतसः ।,
संभावयन्ति पीयूषमप्यूषरजलायितम् ॥ ६ ॥
सुभाषितगुणेनैव मुनेर्वल्मीकजन्मनः ।
नद्धमद्यापि नापैति रामायणमयं यशः ॥ ७॥
भारताख्यं सरो भाति व्यासवागमृतैर्वृतम् ।
यत्र क्षत्रकुलाब्जेषु हंसीयति हरेर्यशः ॥ ८ ॥
न कस्यानुमतः काव्ये गुणो हनुमतः कवेः ।
यद्रसोऽन्तश्चिरं मग्नैरुपलैरपि धार्यते ॥ ९॥
प्रसादोत्कर्षमधुराः कालिदासीर्वयं स्तुमः ।
पीतवाग्देवतास्तन्यरसोद्गारायिता गिरः ॥ १० ॥
दण्डीत्युपस्थिते सद्यः कवीनां कम्पतां मनः ।
प्रविष्टे त्वान्तरं बाणे कण्ठे वागेव रुद्ध्यते ॥ ११ ॥
भ्राम्यन्तु मारवग्रामे विमूढा रसमीप्सवः ।
अमरूद्देश एवासौ सर्वतः सुलभो रसः ॥ १२ ॥
जडानामपि चैतन्यं भवभूतेरभूद्गिरा ।
ग्रावाप्यरोदीत्पार्वत्या हसतः स्म स्तनावपि ॥ १३ ॥
नैतच्चित्रमहं मन्ये माघमासाद्य यन्मुहुः ।
प्रौढतातिप्रसिद्धापि भारवेरवसीदति ॥ १४ ॥
गाश्चारयंश्चिरादासीत्कामं गोवर्धनः क्षितौ ।
सोऽप्यर्थवान्बभूवाहो शालिवाहोपजीवनात् ॥ १५ ॥
रसैर्निरन्तरं कण्ठे गिरा श्लेषैकलग्नया ।
सुबन्धुर्विदधे दृष्ट्वा करे बदरवज्जगत् ॥ १६ ॥
पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/१२
एतत् पृष्ठम् परिष्कृतम् अस्ति
४
कव्यमला