पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
हरिहरसुभषितम्


आकर्ण्य जयदेवस्य गोविन्दानन्दिनीर्गिरः ।
बालिशाः कालिदासाय स्पृहयन्तु वयं न तु ॥ १७ ॥

संपूरयन्तु धामैव धावकस्य धनैर्गिरः ।
गिरे मुरारेर्दारिद्र्यस्पृशेऽपि स्पृहयामहे ॥ १८ ॥

अर्थार्थिनां प्रिया एव श्रीहर्षोदीरिता गिरः ।
सारस्वते तु सौभाग्ये प्रसिद्धा तद्विरुद्धता ॥ १९ ॥

नवीनामनवीनां वा कवीनां लुम्पतां स्मृतिम् ।
नैव शंकरमिश्रेण शंकराचार्यविस्मृतिः ॥ २० ॥

सन्तु शास्त्रविदः श्रेष्ठाः प्रतिष्ठा कापि काव्यतः ।
ख्यातिः किं कालिदासस्य कृता टीकाकृताप्यधः ॥ २१ ॥

हृद्याः सन्तु शतं विद्याः काव्यादव्याहतं यशः ।
निपीतदर्शनग्रामे देहि रामेश्वरे दृशम् ॥ २२ ॥

सत्काल्यं राज्यमित्याहुः कवयो न मयोच्यते ।
तृप्यत्यर्थं कविर्ध्यायन्नैवं राजा तु जात्वपि ॥ २३ ॥

तत्पिबन्त्वमृतं देवाः काव्यमेवामृतं भुवि ।
यत्संबन्धेन जीवन्ति भोजराजादयो मृताः ॥ २४ ॥

के नायुध्यन्न कः प्रादान्नृपोऽनादावनेहसि ।
अनाराध्य कविं कस्य चिरं कीडन्ति कीर्तयः ॥ २५ ॥
'
वशीकरणमेकं हि जगतो यदि पृच्छसि ।
सुभाषितानि सम्यञ्चि संचिन्वानः समभ्यस ॥ २६ ॥

चमत्करोति केषांचित्सुकृतेन सुभाषितम् ।
दुर्लभं पुनरेतस्य वैलक्षण्यपरीक्षणम् ॥ २७ ॥

सुकृतेन कुले जन्म सुकृतेन सुभाषितम् ।
सुकृतेन सती भार्या सुकृतेन कृती सुतः ॥ २८ ॥
.
कुलशीलश्रुताचारवतां किल सतां कुले ।
चिरादाराध्य जायन्ते पुरुषाः पुरुषोत्तमम् ॥ २९ ॥