पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
हरिहरसुभषितम्

स्तनपं क्षणमङ्केन वोढुं म्लायन्ति मातरः ।
जयत्युर्वीयमक्लिष्टं पुष्णात्यामरणं जगत् ॥ २४ ॥

मृतानुगामि तन्नौमि शंभोरम्भोमयं वपुः ।
आत्मव्ययेन यज्जन्तोरन्तःशैत्याय जायते ॥ २५ ॥

विश्वजीवननिर्बन्धमहं गन्धवहं भजे ।
चेष्टतेऽधिष्ठितं येन सहजेन जडं जगत् ॥ २६ ॥

तद्व्योम व्योमकेशस्य वयं वन्दामहे वपुः।
पूर्त्यै यदेकदेशस्य नालं ब्रह्माण्डकोटयः ॥ २७॥

नमश्चन्द्रमसे तस्मै यस्मै दृक्कोटिकैतवात् ।
अर्पयन्ति जगन्ति द्रागुन्निद्राम्बुरुहाञ्जलीन् ॥ २८॥

सौरी जयत्यसौ रीतिः शश्वद्विश्वविलक्षणा ।
यज्जगद्बोधनायास्य निरालम्बेऽम्बरे भ्रमिः ॥ २९ ॥

स्वर्वासिनां हविर्भागवहनं दहनं स्तुमः ।
दहन्तमपि यं नित्यमुपजीवन्ति जन्तवः ॥ ३०॥

होत्रा नस्त्राणकृद्भूयाद्वपुषा स वृषाकपिः ।
जज्ञे यज्ञेन रूपेण यत्कृते प्रकृतेः परः ॥ ३१ ॥

इलाजलानलव्योमसोमसूर्याग्निमूर्तिभिः ।
अस्मान्विस्मारयत्वेकः कष्टमीशोऽष्टमूर्तिभिः ॥ ३२ ॥

इति श्रीहरिहरसुभाषिते मङ्गलप्रकरणम् ॥१॥

अन्तःप्रकाशमिच्छन्तः सदसच्च विवेचितुम् ।
स्नेहं सूक्तिप्रदीपेऽस्मिन्वर्धयन्तु सुबुद्धयः ॥ १ ॥

उच्चैःस्थितीनां विदुषां पदमारोढुमिच्छवः ।
मत्सुभाषितसोपानसेविनः सन्तु साधवः ॥२॥

समाजेभ्यः सुमनसां सुभाषितमयं मधु ।
यावज्जीवं विचिन्वन्ति साधवो मधुपा इव ॥ ३ ॥