कलां तामैन्दवीं वन्दे यया यादःपतिः पिता ।
आरुह्य हरमूर्धानं कृतस्त्रैलोक्यमूर्धनि ॥ ११ ॥
जगत्पतिपदस्पर्शजातामर्षेव जाह्नवी ।
जयत्यम्बुकणैर्जन्तूञ्जनयन्ती जगत्पतीन् ॥ १२ ॥
विसृजन्त्याः पुरा यस्या ब्रह्माण्डाण्डानि वारिधौ
सूतिखेदारवो वेदास्तां मात्सीमूर्तिमाश्रये ॥ १३ ॥
तं स्तुमः कमठं यस्मिन्नास्ते सगिरिसागरा ।
मन्थाचलकिणक्रोडमग्ना मृदिव मेदिनी ॥ १४ ॥
स क्रोडः क्रीडतां दन्तकान्तकल्पाब्धिपल्वलः ।
यद्दन्तलग्नजम्बालक्षोदालम्बा जगत्त्रयी ॥ १५॥
विदारयन्हरिः पातु हिरण्यकशिपोरुरः ।
तदन्तर्गतमात्मीयं द्वेषमन्वेषयन्निव ॥ १६ ॥
नमाम वामनं धाम त्रिभिस्त्रिभुवनं पदैः ।
वामनीकृत्य कथिता येनात्मनि तदात्मता ॥ १७ ॥
स्तुमस्तमुद्यमे यस्य त्रासात्त्रिःसप्तधा व्यधात् ।
क्षत्रियक्षतजाम्भोधावन्तर्धानं वसुंधरा ॥ १८ ॥
स पातु यः प्रतापाग्निपाकपिण्डीकृताम्भसम् ।
सेतुना पुनरुक्तेन ततार क्षारवारिधिम् ॥ १९ ॥
तं नौमि यमुना यस्य लाङ्गलाग्रापवर्तिता ।
उपास्य पादावभजद्गङ्गासंगमयोग्यताम् ॥ २० ॥
बुद्धमुद्दुद्धकारुण्यरसावासमुपास्महे ।
अहिंसा दीर्घसंसारदारिणी येन दर्शिता ॥ २१ ॥
निःशेषोन्मूलितम्लेच्छं करिष्यन्नवनीतलम् ।
करवालकरः कल्की भिनत्तु कलिकल्मषम् ॥ २२ ॥
मत्स्यादयो दशाप्यंशा यस्य कंसान्तकारिणः ।
तं कुक्षिकुहरक्षिप्तद्विसप्तभुवनं भजे ॥ २३ ॥
पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/१०
एतत् पृष्ठम् परिष्कृतम् अस्ति
१
काव्यमाला