पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२६ काव्यमाला । यो विश्वं ममन्थ क्षोभितवान् । अकुन्थकान् सुजनान् प्रपुन्थ्य बन्धूनपि लुन्थति स्म अकुन्थकान् अहिस्रकान् प्रपुन्थ्य हिंसित्वा क्लेशयित्वा वा लुन्थति स्म हृतवान् । स भोजराट् अद्य हरि मिमन्थिषुः प्रमान्थनं सेधतु कः निषेत्स्यति । मिमन्थिषुर्हन्तुमिच्छुः । प्रमान्थनं हिंसां सेधतु प्राप्नोतु ॥-ममन्थेति । ४२ मन्थ विलोडने । क्षोभणं तत् । अस्माल्लिट् । अकुन्थकानिति । ४३ कुथि ४४ पुथि ४५ लुथि ४६ मथि ४७ मान्थ हिसासंक्लेशनयोः । कुन्थेर्ण्वुल् । प्रपुन्थ्येति । पुन्थेर्ल्य॑प् । लुन्थति । लुन्थेर्भूते लट् । मिमन्थिषुः । मन्थेः सनि उप्रत्ययः । प्रमान्थनम् । मान्थेर्ल्युट् । सेधतु । ४८ षिध गत्याम् । अतिसर्गे प्राप्तकाले वा लोट् । निषेत्स्यति । ४९ षिधू शास्त्रे माङ्गल्ये च । शास्त्रं शास्त्रगतं शासनं शासनमात्रं वा । माङ्गल्यं मङ्गलक्रिया । अस्माल्लृट् ॥

पलान्यखाद्यानि खदन्बदद्वपुर्गदन्नवाच्यानि रदन्सतां मनः । नदन्मदादर्दितसंक्षयोऽधुना क्षणं खलो नर्दतु गर्दभस्वरैः ॥ ८ ॥ खल एषोऽधुना गर्दभस्वरैः क्षणं नर्दतु । गर्दभस्वरैगर्दभसदृशैः स्वरैः । क्षणं 'कालाध्वनोः' इति द्वितीया । नर्दतु शब्दं करोतु । अखाद्यानि पलानि खदन् अभक्ष्याणि मांसानि भक्षयन् । अत एव बदद्वपुः स्थिरीभवद्देहः अवाच्यानि गदन् सतां मनः रदन विलिखन् पीडयन् मदात् नदन् । अत एव अर्दितसंक्षयः अर्दितः प्राप्तः सर्वैः प्रार्थितो वा संक्षयो नाशो यस्य सः ॥-अखाद्यानीति । ५० खादृ भक्षणे । अस्माद् ण्यत् । खदन्निति । ५१ खद स्थैर्ये हिसायां च । चाद्भक्षणेऽपि । वदन्निति । ५२ बद स्थैर्ये । गदन्निति । ५३ गद व्यक्तायां वाचि । रदन्निति । ५४ रद विलेखने । तच्च विदारणं क्षोभणं वा । नदन्निति । ५५ णद अव्यक्ते शब्दे । 'णो नः' एभ्यः शता । अर्दितेति । ५६ अर्द गतौ याचने च । अम्मात् कर्मणि क्तः। नर्दत्विति । ५७ नर्द ५८ गर्द शब्दे । नर्देरतिसर्गे लोट् । गर्दभ इति । 'कृशॄशलिगर्दिभ्योऽभच्' इत्यभच्प्रत्ययः ॥

अतर्दकास्त्वद्य विकर्दमाशया: प्रखर्दवृत्तैरसमन्तितान्तिकाः । श्रुतान्दुकैश्चित्तगजेन्द्ररोधिनस्तुष्यन्तु सन्तो गुणबिन्दुलोलुपाः ॥९॥ सन्तोऽद्य तुष्यन्तु । अतर्दका अहिसकाः । विकर्दमो विगतदोष आशयो येषां ते । प्रखर्दवृत्तैः क्रूरव्यापारैरसमन्तितमसंबद्धमन्तिकं येषां ते । श्रुतान्दुकैः शास्त्ररूपैरन्दुकैः पादकटकैः चित्तरूपं गजेन्द्रं रोद्धुं शीलं येषां ते । गुणस्य बिन्दौ लेशे लोलुपाः सश्रद्धाः॥-अतर्दका इति । ५९ तर्द हिसायां । ण्वुल् । विकर्दमेति । ६० कर्द कुत्सिते शब्दे । बाहुलकात् औणादिकोऽमच् । प्रखर्देति । ६१ खर्द दन्दशूके । दन्दशक इति तत्कर्तृकं