पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

धातुकाव्यम् । १२५

दिकुत्सितशब्दकरणात् पृदाकुः सर्पः । तं जयतीति पृदाकुजित् गरुडः । तस्य वेग इव वेगो यस्य इति क्रियाविशेषणं रथविशेषणं वा । गभीरनिर्ह्रादं गभीरो निर्ह्रादो ध्वनिः यस्य तं रथम् । ह्लादादनुस्वादितकृष्णसत्कथः । ह्लादात् सुखेन हेतुना अनुस्वादिताः पुनःपुनश्चर्व्य॑माणाः कृष्णस्य सत्कथाः येन सः ॥-निर्ह्रादमिति । २६ ह्राद अव्यक्ते शब्दे । अस्माद् घञ् । ह्लादात् । २७ ह्लादी सुखे च । चादव्यक्तशब्देऽपि । अस्मादपि धञ् । अनुस्वादितेति । २८ स्वाद आस्वादने । कर्मणि क्तः । पृदाकुरिति । २९ पर्द कुत्सिते शब्दे । अस्मात् 'पर्देर्नित्संप्रसारणमल्लोपश्च' इत्याकुप्रत्ययो रेफस्य संप्रसारणं पकारस्थिताकारस्य लोपश्चायत्नतः । ३० यती प्रयत्ने । अस्माद् 'यजयाचयत-'इति नड्प्रत्ययः । वियोयुतदिति । ३१ युतृ ३२ जुतृ भासने । युतेः यड्लुगन्ताच्छता । जोतिना । जुतेर्णिनिः ॥

एवं गोकुलं प्रति प्रस्थितोऽक्रूरो निजेप्सितप्रतिबन्धमाशङ्कमानः प्रार्थयते-- स वेथते स्माखिलवेथितं विधिं प्रश्रन्थितग्रन्थनधीरकत्थनः । अतेन्मुरारिर्मम चिन्मयोऽन्तिके च्योतन्दिशः प्रश्च्युतितैः स्मितामृतैः ६ स विधि वेथते स । विधिमीश्वरं वेथते स्म प्रार्थितवान् । अखिलवेथितं सर्वजनैः प्रार्थितमिति विधिविशेषणं प्रधानकर्म वा। प्रश्नन्थितमन्थनधीः प्रकर्षेण श्रन्थितं शिथिलीभूतं ग्रन्थनं कौटिल्यं यस्यास्तादृशी धीर्यस्य सः । अकत्थनः । न कत्थनमात्मश्लाघाशीलं यस्य सः । अस्य विष्णोः श्लाघाशील इति वा । प्रार्थनीयमेवाह-मुरारिर्ममान्तिके अतेत् सततं गच्छेत् । चिन्मयो ज्ञानस्वरूपः । प्रश्चयुतितैः स्मितामृतैर्दिशश्च्योतन् । प्रश्च्युतितैर्गलितैः । च्योतन् आसिञ्चन् ॥--वेथत इति । ३३ विथृ ३४ वेथृ याचने । विथेः 'लट् स्मे' इति भूते लट् । वेथितम् । वेथेः कर्मणि कः प्रश्रन्थितेति । ३५ श्रथि शैथिल्ये । तच्च विशिष्टता अगाधता वा । अस्मात् कर्तरि क्तः । ग्रन्थनेति । ३६ ग्रथि कौटिल्ये । शाठ्यं वक्रता वा तत् । अस्माल्ल्युट् । अकत्थन इति । ३७ कत्थ श्लाघायाम् । सा च परविषया स्वविषया च स्यात् । अस्माद् 'अनुदात्तेतश्च-' इति युच् । अत्र युजन्तोक्त्या तवर्गान्तानुदात्तेतां समाप्तिः सूचिता । अतेदिति । ३८ अत सातत्यगमने। शुन्धन्ता उदात्ताः उदात्तेतः । अस्माल्लिड् । उदात्तेत् प्रकरणारम्भर्कद्योतकमिदम् । चिन्मय इति । ३९ चिती संज्ञाने । तच्च चैतन्यं स्मरणं च । भट्टिमते(?) ज्ञानमात्रं च । अस्मात् संपदादिक्किबन्तान्मयट् । तद्रूप इति केचित् । इति कौमुद्युक्तेः । ताद्रूप्ये मयट् । च्योतन् । ४० च्युतिर् आसेचने । आर्द्रीभवनं तत् । अस्माच्छता । प्रश्च्युतितैरिति । ४१ श्च्युतिर् क्षरणे। स्रुतिस्तत् । अस्मात् कर्तरि क्तः॥

कंसं प्रति हितानुक्तिदोषेण प्रार्थनप्रतिबन्धमाशङ्कय परिहरति- ममन्थ विश्वं सुजनानकुन्थकान्प्रपुन्थ्य बन्धूनपि लुन्थति स्म यः । स भोजराडद्य हरिं मिमन्धिषुः प्रमान्थनं सेधतु को निषेत्स्यति ॥७॥


१. 'प्रार्थितप्रतिबन्ध' पाठः,