पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

धातुकाव्यम् । १२७

दंशनमुक्तम् । अस्मात् पचाद्यत् । असमन्तितेति । ६२ अति ६३ अदि बन्धने । अन्तेः कर्मणि क्तः । अन्दुकेति । 'अन्दूदृम्भूकफेलूकर्कन्धूदिधिषू' इत्यूप्रत्ययान्ता अन्देः स्वार्थे कनि । 'केऽणः' इति ह्रस्वः । इन्द्रेति । ६४ इदि परमैश्वर्ये । अस्माद् 'ऋज्रेन्द्र-'इत्यादिना निपातितो रन् । बिन्दुरिति । ६५ बिदि अवयवे । बाहुलकादुप्रत्ययः ॥

मनोज्ञगण्डं तमनिन्दिताननं नन्दात्मजं शारदचन्द्रशीतलम् । पराक्रमत्रन्दनकन्दितासुरं संक्रन्दनक्लन्दितमीक्षितास्महे ॥ १० ॥ वयं तं नन्दात्मजमीक्षितास्महे द्रक्ष्यामः । तद्दिवसे एव भगवद्दर्शनानिश्चयात् लुट्प्रयोगः । मनोज्ञगण्डमित्यादीनि त्रीणि विशेषणानि स्पष्टानि । पराक्रमत्रन्दनकन्दितासुरं पराक्रमरूपेण त्रन्दनेन चेष्टया कन्दिता रोदिता असुरा येन तम् । संक्रन्दनक्लन्दितमिन्द्रेण बहुकृत्वः स्वरक्षणार्थमाहूतम् ॥--गण्डम् । ६६ गडि वदनैकदेशे । अस्मात् पचाद्यच् । वदनैकदेश इति तदारम्भक्रियोक्ता । अनिन्दितेति । ६७ णिदि कुत्सायाम् । कर्मणि क्तः । नन्देति । ६८ टुनदि समृद्धौ । समृद्धिर्हर्षे पर्यवस्यति । पचाद्यच् । चन्द्रेति । ६९ चदि आह्लादे दीप्तौ च । 'स्फायि-तञ्चि-वञ्चि-शकि-क्षिपि-क्षुदि-सृपि-तृपि-दृपि-वन्दि-उन्दि-श्विति-वृति-अजि-नी-पदि-मदि-मुद-खिदि-छिदि-भिदि-मन्दि-चन्दि-दहि-दसि-दम्भि-वसि-वाशि-शीङ्-हसि-सिधि-शुभिभ्यो रक् इति रक् । त्रन्देति । ७० ऋदि चेष्टायाम् । ल्युट् । कन्दितेति । ७१ कदि ७२ क्रदि ७३ क्लदि आह्वाने रोदने च । कन्देर्णिजन्तात् क्तः। संक्रन्दनेति । 'समि-क्रन्दि-कृषि-हृदिभ्यः' इति नन्दादिपाठाल्ल्युट् । क्रन्दितमिति । क्रन्देः कर्मणि क्तः ॥

अक्लिन्दनीयान्शुधितात्मनो जनान्प्रशीकते यः करुणावलोकनैः तमुत्तमश्लोकमवेक्ष्य तत्स्तुतिद्रेकैरुपध्रेकयितास्मि दिक्तटम् ॥ ११ ॥ यः करुणावलोकैः शुधितात्मनो जनान् प्रशीकते । शुधितः शुद्ध आत्मा मनो येषां तान् प्रशीकते नितरां सिञ्चति । अक्लिन्दनीयान् परिदेवयितुमनहर्हान् । अहं तमुत्तमश्लोकमवेक्ष्य तत्स्तुतिद्रेकैर्दिक्तटमुपध्रेकथितास्मि तत्स्तुतिद्रेकैस्तस्य स्तुतिरूपैर्द्रेकैः शब्दैरुपध्रेकयितास्मि शब्दयिष्यामि ॥--आक्लिन्दनीयानिति।७४ क्लिदि परिदेवने। अस्माण् णिजन्तादनीयर् । शुधितेति । ७५ शुन्ध शुद्धौ । अस्मात् कर्तरि क्तः । 'अनिदिताम्' इति नकारस्य लोपः । अतादय उदात्ता उदात्तेतः । प्रशीकत इति । ७६ शीकृ सेचने । एतदादयः श्लाघ्यन्ता उदात्ता अनुदात्तेतः । अस्माल्लट् । आत्मनेपदारम्भसूचकस्तशब्दः। अवलोकनैरिति । ७७ लोकृ दर्शने । ल्युट् । उत्तमश्लोकमिति । ७८ श्लोकृ संघाते । स च ग्रन्थनम् । तच्च कर्मगतं कर्तृगतं वा । अस्मात् कर्मणि घञ् । द्रेकैरिति । ७९ द्रेकृ ८० ध्रेकृ शब्दोत्साहयोः । शब्दोत्साह इत्येके । उत्साहो वृद्धिरौद्धत्यं वा । द्रेकेर्घञ् । उपध्रेकयितास्मि । ध्रेकेर्लुट् ॥