द्वादशः सर्गः।
अत्रान्तरे नृपसुतापहृतस्ववस्तु-
व्रातप्रभावगरिमार्जितवित्तराशिः।
नानाविधाहितमहोत्सवहृष्टचित्ता
सा वारयोषिदपि हर्म्यमथारुरोह ॥ १॥
आमुक्तभूषणवरांशुकभूषिताङ्गी
संत्रस्तबालमृगचञ्चनलोचनश्रीः ।
वातायनोपरि रराज नितान्तमेषा
दिव्याङ्गनेव वरवारवधूस्तदानीम् ॥ २॥
शिञ्जानमञ्जुलसुरञ्जितचित्ररत्न-
मञ्जीरयुग्मललिताङ्घ्रियुगं रराज ।
तस्या विकोशमुखरालिभृतस्थलाम्बु-
जन्मानुकारि सरलाङ्गुलिपत्रहारि ॥ ३ ॥
करभाधिकोच्चमसृणं त्वधरं ललितोरुबिम्बयुगलं शुशुभे ।
मदनद्विपेन्द्रदशनद्वितयं मुनिचित्रशाखिपरिभञ्जनकृत् ॥ ४ ॥
नाभिबलित्रितयहारितरातिरम्या
तस्या बभौ विरचिता तदहं हि मन्ये ।
स्थित्यर्थमीश्वरभयान्मकरध्वजेन
सोपानलाञ्छितमनोरमदीर्घिकेव ॥ ५॥
तस्या उरोजद्वयमूर्ध्वगामि रराज सत्काञ्चनकुम्भकान्ति ।
पश्याव एतद्वदनं कदा वामित्थं हि सोत्कण्ठतयेव नुन्नम् ॥ ६ ॥
शिरोधरा चापि रराज तस्या भूष्याद्वितीयाखलभूषणालम् ।
कंसारिहस्तस्थितकम्बुशोभां विडम्बयन्ती धवलोच्चकान्तिः ॥ ७॥
तस्याः पाणियुगं रराज रुचिरं रक्ताञ्जशोभाधिकं
प्रान्तप्राज्यविराजमाननखरं स्पष्टाङ्गुलीलाञ्छितम् ।
मन्ये शंकरदग्धपञ्चविशिखामर्शेण चेतोभुव-
श्चक्रे तद्विगुणं स्वबाणदशकं यद्व्याजतो नूतनम् ॥ ८ ॥