पृष्ठम्:देलरामाकथासारः.pdf/५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४४
काव्यमाला ।

दशनपङ्क्तिरत्नं शुशुभेऽमिता धवलकान्तिविडम्बितचन्द्रिका ।
प्रवरमौक्तिकराजिविराजिता स्मरवशंकरचूर्णसुसंनिभा ॥ ९॥
 नात्युन्नतेन न च वामनताश्रितेन
 नैवातिपीवरतरेण न कार्श्र्यभाजा।
 नातीव किं च विनतेन सुकान्तिनासा-
 वंशेन चापि शुशुभे ललितार्जवेन ॥ १० ॥
नेत्रद्वयं तत्र रराज तस्या निरन्तरामन्दसुपक्ष्मशोभम् ।
तिरस्कृतैणेक्षणकान्तिदर्पं व्याकोशराजीव पलाशरम्यम् ॥ ११ ॥
शोभां भ्रूयुगलं बभार नितरां तस्या महाकान्तिभृ-
 द्रम्यं काम्यतमं विजिह्यमनघं संदर्शनानन्दकृत् ।
जानेऽहं नु नवीचकार मदनश्चापद्वयं शंभुना
 निर्दग्धाद्य निजैककार्मुकवशामर्षेण जैत्रं स्थिरम् ॥ १२ ॥
बभार शोभां नितरां ललाटपट्टं तदीयं विमलस्वकान्ति ।
शङ्के रुषा शंकरशीर्षपृष्ठादचूचुरच्चन्द्रकलामनङ्गः ॥ १३ ॥
सच्छोभालकराजिराजितमलं लावण्यकान्त्या करं
 वक्रं चारुतरं तदीयमनघं सद्रूपगर्वावधि ।
शङ्के नानुचकार पार्वणसुधासूतिः कलङ्काश्रया
 तत्पङ्केरुहसाम्यवर्णनविधौ किं चित्रमुच्चैर्भवेत् ॥ १४ ॥
उवाह शोभां च तदुत्तमाङ्गं नितान्तसीमन्तविराजमानम् ।
विनिर्जितालिव्रजबर्हिबर्हनितम्बबिम्बाश्रितकेशपाशम् ॥ १५ ॥
 तत्केशपाशधवलस्तबकापदेशा-
 च्चन्द्रो विवादमकरोदिति राहुणेव ।
 मां चेद्भसस्यशरणं किमिदं मदीय-
 भ्रान्त्या रुणत्सि वदनं मदनोऽत्र रक्षी ॥१६॥
 चान्द्रीं त्विषं दशनशुभ्रमरीचिकान्त्या
 लीलालसेन गमनेन च राजहंसीम् ।