पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५० काव्यमाला । प्रति प्रश्वल्लितमाशु गमितमखोडमप्रतिहतगति अखञ्जं सुदर्शनायुधं येन तम् ॥-शेलादिति । शेलेर्धञ् । स्खलताम् । ५४३ स्खल संचलने । प्रतिधातेऽप्यस्ति । शता। खलेति । ५४४ खल संचये । पचाद्यच् । गलेति । ५४५ गल अदने । अच् । सलितम् । ५४६ षल गतौ कर्तरि क्तः । दलदिति । ५४७ दल विदारणे । शता । प्रश्वलितान् । ५४८ श्वल ५४९ श्वल्ल आशुगमने । श्वलेः कर्तरि क्तः । प्रश्वल्लितेति । श्वल्लेर्णिजन्तात् कर्मणि क्तः । अस्त्रोडेति । ५५० खोऌ ५५१ खोर्ऋ गतिप्रतिघाते । खोलेरच् । डलयोरभेदाड्डः ॥

अखोरधौरत्पतगेन्द्रवाहनं स्वसेविनां तित्सरिषां निराडिनम् । क्मरन्मनोदुर्गममभ्रमेचकं बभ्रद्वधूविभ्रमवृष्टिमभ्रितम् ॥ ७१ ॥ अखोरमप्रतिहतगति यथा तथा धौरच्चतुरं गच्छत् पतगेन्द्रवाहनं यस्य तम् । स्वसेविनां तित्सरिषां व्याजकरणेच्छां निरसितुं शीलं यस्य तम् । क्मरतां कुटिलानां मनसो दुर्गमम् । अभ्रमिव मेचकम् । वभ्रन्तीनां चरन्तीनां वधूनां बिभ्रमवृष्टिमभ्रितं प्राप्तम् ॥-अखोरेति । खोरेः पचाद्यच् । धौरदिति । ५५२ धोर्ऋ गतिचातुर्ये । शता । तित्सरिषेति । ५५३ त्सर छद्मगतौ । सन्नन्तादकारः । क्मरदिति । ५५४ क्मर हूर्च्छने । कौटिल्यं तत् । शता । अभ्रेति । ५५५ अभ्र ५५६ वभ्र ५५७ मभ्र ५५८ चर गत्यर्थाः । अभ्रेः पचाद्यच् । वभ्रे शता । मभ्रेः कर्मणि क्तः ॥

संचारनिष्ठ्यूतनखेन्दुचन्द्रिकं लोके जयन्तं सकलैकजीवनम् । अपीवितां नाप्यतिमीवितां श्रितं तनुं सुवीतोरुमनीवमध्यमाम् ॥७२॥ पूर्वार्धः स्पष्टः । न अपीवितामतिमीवितामपि तनुं श्रितम् । अपीवितां कृशाम् । अतिमीवितां अतिस्थूलाम् । कीदृशीं तनुम् । सुतिवौ सम्यक् पीनावूरू यस्यास्ताम् । अनीवं कृशं मध्यमं मध्यप्रदेशो यस्यास्ताम् ॥-- संचारेति । चारेर्घञ् । निष्ठ्यूतेति । ५५९ ष्ठिवु निरसने । आस्यान्निःसारणं तत् । 'सुब्धातुष्ठिवुष्वष्कतीनां न' इति सत्वाभावः । कर्मणि क्तः। जयन्तम् ।५६० जि जये। जय उत्कर्षप्राप्तिः जीवनम् । ५६१ जीव प्राणधारणे । ल्युट् । अपीविताम् । अतिमीविताम् । ५६२ पीव ५६३ मीव ५६४ तीव ५६५ णीव स्थौल्ये । पीविभीव्योः कर्तरि क्तः । तीविनीव्योरिगुपधत्वात्कः ॥

प्रक्ष्यूतगोपीशुचमूर्णपूतनं तूर्णानसं थूर्णवकादिदानवम् । दुदूर्विषून् धूर्वितुमेव गूर्वणं मूर्वन्तमापूर्वितपर्वताध्वरम् ॥ ७३ ॥ प्रक्ष्यूता निरस्ता गोपीनां शुक् येन तम् । ऊर्णा हिसिता पूतना येन तम् । तूर्णं चूर्णीकृतमनः शकटं येन तम् । थूर्णाः हताः बकादिदानवाः येन तम् । दुदूर्विषून् हन्तुमिच्छून् । घूर्वितुं हन्तुमेव गूर्वणमुद्यमं मूर्वन्तं बध्नन्तं परिगृह्णन्तमित्यर्थः । आपूर्वितः संपूरितो निर्वर्तितः पर्वताध्वरो येन तत् ॥-प्रक्ष्यूतेति । ५६६ क्षिवु ५६७ क्षेवु निरसने ।